________________
ne
यतः - बावत्तरिकलाकुसला, पंडियपुरिसा अपंडिया चेव । सब्बकलाणं पवरं, जे धम्मकलां न जाणंति ॥२५॥ तदा व्यवहारिणोक्तं-तहिं त्वं मम । व्यापारसंबंधिलेखादिकार्य कुरु, तेनापि तदंगीकृतं, ततो व्यवहारिणापि स लेखादिकार्ये स्थापितः, एवं स तत्र सुखेन कालं गमयति ।
अथ मंत्रिणा देवकुले मुक्ता तस्य भार्या विनयसुंदरी स्वपतिवार्तामलभमाना कुंभकारगृहे स्थिता, कुंभकारेणापि तस्याः पुण्यशीलमाहात्म्येन र
सा निजसुतापदे स्थापिता यतः-लज्जा दया दमो धैर्य, पुरुषालापवर्जनं । एकाकित्वपरित्यागो, नारीणां शीलरक्षणं ॥२६॥ अथ सा सती तत्रस्था र कामकुंभ स्वोचितानेवंविधान्नियमान् जग्राह, यथा भर्नुमिलनावधि भूमौ शयनीयं, स्नानं न कार्य, रक्तवस्त्राणि त्याज्यानि, पुष्पांगरागविलेपनं त्याज्यं, कथा
नाऽस्वायं तांबूलं, लवंगैलाचीजातिफलानां नियमः, शरीरमलोऽपि विभूषार्थ नापनेयः, सर्वशाकानां नियमः, दधिदुग्धपक्वाle 11
सन्नगुडखंडशर्करापायसप्रभृतिस- र्वसरसमाहारं न भोक्ष्ये. नीरस एवाहारो मया ग्राह्यः, सदैकभक्तमेव कार्य, महत्कार्य विना गृहाबहिर्न निर्गंतव्यं,
गवाक्षेषु न स्थातव्यं, लोकानां विवाहाद्यपि न वीक्षणीयं, सखीभिरपि सह नालापपुरुषस्त्रीश्रृंगारहास्यविलासनेपथ्यादिका विकथा न कार्या, वैराग्यकथैव पठनीया गुणनीया च. कर्मकरादिभिः सहाप्यालापसंलापादि न कार्य तर्हि अन्यपुरुषैः सह तु दूरे एव, चित्रस्था अपि पुरुषा नालोकनीया इति, अथ स मंत्री तेन व्यवहारिणा सह सुखेन रत्नद्वीपं गतः, तत्र सुरपुरं नाम नगरं. शक्रपुरंदराभिधश्च राजा. अथ तेन व्यवहारिणा प्रवहणात्सर्वक्रयाणकान्युत्तार्य वखारेषु क्षिप्तानि, तेषां क्रयविक्रयादिसर्वव्यवसायस्तेन मंत्रिणे समर्पितः, तेन स मंत्री तत्र सर्वव्यवसायं करोति, सागरदत्तव्यवहारी तु नगरांतःस्थितगणिकायामासक्तो जातः, यतः - यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता ॥ एकैकमप्यनऑय, किं पुनस्तचतुष्टयम् ॥२७॥ अथ स श्रेष्ठी तु तया वेश्यया सह विषयसुखं भुनक्ति, एकदा तया वेश्यया चिंतितं, यदस्य श्रेष्ठिनो यो धर्मबुद्धिनामा व्यापाराधिकारी वर्त्तते स यदि केनचिदप्युपायेनास्माकं गृहे समागच्छेत्तदा नो बहुद्रव्यलाभो भवेत्, यतः स एव सर्वद्रव्याधिकार्यस्ति. एवं विचार्येत्यं सज्जितषोडशश्रृंगारा कपटनाटकैकपटुः सा गणिका मंत्रिणः क्षोभनार्थं समागता, तत्रागत्य तया विविधहावभावादिविलासचेष्टितैर्मत्रिणः