________________
॥६॥
पश्यामि ? इति चिन्तयन् स निशायां सुष्वाप. प्रातमंत्री दिव्यवस्त्राणि परिधाय सुवर्णस्थालं च रत्नैर्भूत्वा राज्ञे मिलितः, राज्ञा पृष्टमेतावन्ति । का रत्नानि त्वया कुतः प्राप्तानि ? मन्त्रिणोक्तं धर्मप्रभावात् पुनः राज्ञोक्तं-रात्रौ स्वर्णमयावासो दिव्यनाटकं च किं तवैवासीत् ? तेनोक्तमेवमेव." PAY अथ तदावासं द्रष्टुकामेन राज्ञा मन्त्रिणे प्रोक्तमहं स्वल्पपरिवारयुतस्तव गृहे भोजनं कर्तुमिच्छामि, ततो मासप्रांते मां तव गृहे भोजय, 6
मन्त्रिणोक्तं- स्वामिनयैवाहं युष्मान् भोजयिष्यामि. अतस्तव देशमध्ये यावान्मेलापकः समस्ति तावन्तं मेलापकं गृहीत्वा मम गृहे कामकुंभ भोजनार्थमागन्तव्यं, यथाहं तान् -सर्वानपि भोजयिष्यामि, राजा चिन्तयति अहोऽस्य वणिग्मात्रस्यापि मन्त्रिणः कियत्साहसं वर्त्तते ? नूनं तेन कथा मम मेलापकस्य पानीयमपि पातुं न शक्यते, तर्हि किं पुनर्भोजनं ? रुष्टेन राज्ञा तस्मिन्नेव दिने निजदेशसर्वमेलापको मेलितः। ॥६॥
अथ राज्ञा मन्त्रिणो गृहे तत्स्वरूपविलोकनार्थं प्रच्छन्नं निजपुरुषः प्रेषितः, तेनापि तत्रागत्य यदा मन्त्रिगृहावरूपं विलोकितं, तदा कापि भोजनसामग्री न दृष्टा, परं सप्तमभूमौ मन्त्री सामायिकं गृहीत्वा नमस्कारान् जपंस्तेन दृष्टः, ततस्तेन जनेन पश्चादागत्य तत्सर्व स्वरूपं राज्ञे a निवेदितं,. तदा राजा चिन्तयति नूनमेष मन्त्री ग्रथिलीभूय छुटिष्यति, पश्चान्मया त्वेतेभ्यः सर्वेभ्यो भोजनं देयं भविष्यति. एवं स किंकर्तव्यतामूढो
जातः, एतावता मन्त्री राज्ञः समीपं समागत्य विज्ञपयामास, हे स्वामिन् ! समागम्यतां, रसवती शीतला जायमानास्ति. तत् श्रुत्वा राज्ञोक्तं 23 भो मन्त्रिन् ! त्वया मयापि सार्द्ध किं हास्यं प्रारब्धमस्ति ? यतस्तव गृहे तु साम्प्रतं स्वल्पापि भोजनसामग्री नास्ति. तदा सचिवेनोक्तं-हे
स्वामिन् ! एकशस्तत्र पादाववधार्य विलोक्यतां, राजा सविस्तृतपरिकरस्तत्रागत;, कामपि सामग्रीमनालोक्य च रोषारुणो जातः सन् चिंतयति, PXयतः -
कोह पइट्ठिओ देहयरिं, तिनि विकार करेइ । आप तपावें परतपें, पर तइ हांणि करेइ ॥१८॥ लागो कोहदवानलो, उज्झइ गुणरयणाई। ॐउवसमजलें जो ओलवें, न सहे दुक्खसयाई ॥१९॥ अपूर्वः कोऽपि कोपानिः, सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहात्, वर्द्धतेऽन्यस्य
HARYANA