________________
कथा
11911
स्त्रीभिर्दिव्या रसवती परिवेषिता. ततस्ते परस्परं कथयन्ति यदीदृशानि फलानि ईदृशानि पकान्नानि ईदृशा च रसवती न क्वापि कदाचिदपि दृष्टा एक वाऽस्वादिता. अथ भोजनानन्तरं तेन सकलसंघः परिधापितः, चमत्कारपूरितैः संघपतिभिः पृष्टं त्वयैतावत्कस्य बलेन कृतं ? तेनोक्तंएक कामकुंभवलेन, लोभाभिभूतैः संघपतिभिरुक्तं, यदि त्वमस्माकं कामघटमर्पयिष्यसि तदा तब सर्वदा साधर्मिकवात्सल्यस्य पुण्यं भविष्यति, त्वं तु धर्मार्थी दृश्यसे, अपरं चास्माकं चामरयुगलं राजप्रदं छत्रं च सर्वरोगविषशस्त्रघाताद्युपद्रवनिवारकं त्वं गृहाण, कामघटं चास्माकं समर्पय कामकुंभ मंत्रिणोक्तं- देवेन तुष्टेन ययस्यार्पितं भवति तत्तत्रैव तिष्ठति, नान्यत्र, अर्थिनः संघपतयः कथयन्ति, त्वं तदर्पय तिष्ठतु वा मा तिष्ठतु ततो मन्त्रिणा तच्चामरयुगलं राज्यप्रदं छत्रं च गृहीत्वा कामघटः संघपतिभ्यः समर्पितः, तदनु हृष्टः सन् श्रीसंघो मन्त्री च चलितौ स्वस्वस्थानं प्रति. द्वितीयदिने बुभुक्षितो मन्त्री लकुटं प्रति वक्ति, कामघटमानय. तेनोक्तमानयिष्यामीति कथयित्वा स संघमध्ये गतः, पार्श्वस्थान् सुभटानाहत्य तेषां च खड्गखेटकानि भक्त्वा मंजूषां च भक्त्वा सुरक्षितं कामघटं गृहीत्वा स पश्चादागतः वस्तुत्रयं लात्वा मन्त्री स्वगृहे प्राप्तः । यतः- जैनो धर्मः प्रकटविभवः संगतिः साधुलोके, विद्वद्गोष्ठी वचनपटुता कौशलं सर्वशास्त्रे । साध्वी लक्ष्मीश्वरणकमले वासनासद्गुरूणां शुद्धं क शीलं मतिरमलिना प्राप्यते भाग्यवद्भिः ||१७|| अथ तस्मिन्नेव दिने राज्ञा धर्मपरीक्षार्थं बीजपूरकद्वयमानाय्यैकस्य बीजपूरकस्य मध्ये सपादलक्षमूल्य रत्नं क्षिप्त्वा जनस्य हस्ते विक्रयार्थमर्पितं, तस्योक्तं च, शाकचतुष्पथे शाकविक्रयकारिणे त्वयैतत्समर्पणीयं यावता तं कोऽपि न गृह्णाति तावत्त्वया प्रच्छन्नवृत्त्या तत्रैव स्थेयम्, यदा यः कोऽपि गृह्णाति तदा तस्याभिधानं ममाग्रे वाच्यं तेन जनेनापि तथैव कृतं, अथ मन्त्रिणो गृहागमानन्तरं तस्य जायया मन्त्रिणस्तापोपशांत्यर्थं तत्रागत्य तदेव बीजपूरकं रत्नगर्भितं गृहीत्वा मन्त्रिणे समर्पितं, मन्त्रिणापि तद्भक्षितं तन्मध्याच्च रत्नं गृहीतं. अथ तेन जनेन राज्ञोऽग्रे प्रोक्तं यन्मन्त्रिजायया तद्वीजपूरकं गृहीतं, ततो राज्ञा चिन्तितमेतदपि नूनं धर्ममाहात्म्यमेव. अथ रात्रौ मन्त्रिणा सप्तभूमिकः स्वर्णमयावासः कृतः, तत्र रक्तरत्नखचितानि स्वर्णकपिशीर्षकाणि भांति स्म, द्वात्रिंशद्वाजिन्त्रोपेतं अपने दिव्यगीतनाट्यान्वितं च नाटकं बभूव तद् दृष्ट्वा श्रुत्वा च राजा मनसि चमत्कृतः सन् चिंतयति, किमेष: स्वर्गः १ किमिंद्रजालं वा स्वप्नं
119 11