________________
焱
आदौ रूपविनाशिनी कृशकरी कामस्य विध्वंसिनी । ज्ञानं मंदकरी तपः क्षयकरी धर्मस्य निर्मूलनी ॥ पुत्रभ्रातृकलत्रभेदनकरी लज्जाकुलच्छेदिनी । सा मां पीडति सर्वदोषजननी प्राणापहारी क्षुधा ॥१३॥ दंडेनोक्तम्-अन्यत्किमपि कार्यं मम कथय तत्करिष्यामि तेनोक्तं तर्हि कामघटमानय तदा स आनयिष्यामीत्युक्त्वाऽऽकाशमार्गेण
焱
२ चचाल. गतश्च स तत्र यत्र स राक्षस आसीत्, ततस्तं कुट्टयित्वा द्वारं भङ्क्त्वा कामघटं च गृहीत्वा स मन्त्रिसमीपे समागतः, मन्त्रिणाथ स
कथा
118 11
काकुंभ कामघट आलापितो यत्त्वं तत्र किं समाधिना स्थितः १ घटेनोक्तं क मे समाधिः ? यतस्त्वं मां यस्य कस्याऽप्यधर्मिणेऽर्पयसि मम तु धर्मवतामेव ॥ ४ ॥ समीपे समाधिर्नान्यत्र. ततस्तेन मन्त्रिणे भोजनं दत्तं, ततश्च तद्वयं लात्वा स मन्त्र्यग्रतश्चचाल. क्रमेण स कस्यापि ग्रामस्य समीपे समागतः तत्र तेन रैवताचलशत्रुंजयाख्यतीर्थद्वययात्रां कृत्वा पश्चाद्वलमानः कश्चित्संघः समागतो दृष्टः, संघं दृष्ट्वा मन्त्री त्वतीव हृष्टः, यतः यात्रार्थे भोजनं येषां दानार्थं च धनार्जनम् । धर्मार्थं जीवितं येषां ते नराः स्वर्गगामिनः || १४ || विवेकः सह संपत्त्या, विनयो विद्यया सह । प्रभुत्वं च 發 श्रियोपेतं, चिह्नमेतन्महात्मनाम् ||१५|| स्पृष्ट्वा शत्रुंजयं तीर्थं नत्वा रैवतकाचलम् ।। स्नात्वा गजपदे कुंडे पुनर्जन्म न विद्यते ।। १६ ।। इति विचार्य मन्त्रिणा संधो भोजनाय निमन्त्रितः, तदा संघेन तमेकाकिनं दुःखितं च दृष्ट्वा रंधनाय प्रारब्धं, ततो मन्त्रिणा जलघटं गृहीत्वा संघमध्यस्थचूल्हकेषु वारि क्षिप्तं कथितं चात्र केनापि न रंधनीयं, तथाविधं तमसद्दशं दृष्ट्वा व्याकुलीभूतः संघपतिश्चिंतयति, यदद्याऽस्य भोजनं तु दूरेऽस्तु परमात्मीयमपि भोक्तुं न शक्यते तदा सर्वेऽपि संघपतयः संभूय विचारयन्ति यदय किं करिष्यति संघ: १ अयं तु स्वोदरपूरणेऽपि न समर्थ:, तथैवास्माकमात्मनीनमपि रंधनाय न ददाति.
焱 ततो वृद्धैरुक्तम्, अथ भोजनवेला जाता, मन्त्रिणागत्य संघ आकारितः, संघोऽपि संदेहदोलारूढः शून्याटव्यां तदुक्तस्थानं प्रति चचाल, और अग्रतो गच्छन् संघो दुकूलमयं रमणीयं मंडपं दृष्ट्वा दृष्टो विस्मितश्च. परस्परं पृच्छन्ति जनाः, किमिदं सत्यमसत्यं वा १ दृष्टिभ्रमो वा ? अथ तत्र गमनानन्तरं हस्तेन स्पृष्ट्वा ते मंडपं विलोकयन्ति ततस्तेन मंत्रिणा घटप्रभावेण तत्र सुवर्णस्थालानि मंडितानि अष्टोत्तरशतसंख्यामिता