________________
पालगोपाल
कथा
11 99 11
अधारक्षे नृपस्याग्रे, वृत्तान्ते विनिवेदिते । तेनापि च निजं सैन्यं, प्रेषितं, तद्बधेच्छया ||१९९|| ज्ञात्वा सैन्यं समायान्तं, पालो गेहाद्विनिर्गतः । सव्यापसव्यतूणीर धारी कोदण्डदण्डभृत् ॥ २००॥ धाराधराम्बुधारावत्, स्फारास्तद्वाणधोरणीः । प्रेक्ष्य भीताः प्रणेशुस्ते, कोद्रे राजहंसा रणाङ्गणात् || २०१|| ज्ञात्वा भग्नं निजं सैन्यं, महीपालः समागत: । द्दष्ट्वा तं प्रत्यभिज्ञाय, जहर्ष प्रणनाम च ॥ २०२ ॥ पालः सर्वं स्ववृत्तान्तं, गोपालाय न्यवेदयत् । सङ्गमं च तयोर्ज्ञात्वा, हृष्टा सौभाग्यमञ्जरी || २०३ || अथ प्रविविशुः सर्वे पुरे पौरैः कृतोत्सवाः । गृहीत्वा न द्रविणं बद्धो, धनदत्तोऽपि भूभुजा || २०४ || पालेन मोचितो देशा - निरवासि च भूभुजा । मृत्वागानरके सौख्यं, कुतः पापात्मनां भवेत् ? ॥ 99 ॥ * ॥ २०५ ॥ न दीयमानमप्यैच्छ-द्राज्यं पालः स्वबन्धुना । जगौ च तातपादानां, सैव राज्यं ममोचितम् ॥ २०६ ॥ कियत्यपि गते काले तावसंख्यबलान्वितौ ।। प्रस्थितौ ताम्रलिप्तीतः श्रीविशालापुरीं प्रति ।। २०७|| देशसन्धिं समासाद्य तत्र सैन्यं निवेश्य च । वृत्तान्तो ज्ञापितः राष्ट्र स्वीयो, विशालायां स्वमन्त्रिणे || २०८ || हृष्टस्तावागतौ ज्ञात्वा, मन्त्री भूपं जगाविति । देव ! त्वद्देशसीमानं, प्राप्तं भूरि द्विषां बलम् ॥ २०९ ॥ जरया जर्जरीभूत- तनुर्योध्धुमशक्नुवन् । युद्धधुर्यसुतध्वंस - कारिणं स्वं शुशोच सः || २१०|| मन्त्री प्राह महीनाथ !, विषादेन कृतं यतः । गतं मृतं विनष्टं च नैव शोच्यं विचक्षणः || २११ || युद्धाय त्वर्यतां वीर !, धीरतामवलम्ब्यताम् । इत्युक्ते धैर्यवान् भूपः, ससैन्यः प्राचलद्युधे ।। २१२ ।। चकार च महाघोरं वीरसंहारणं रणम् । वैरिनाशीरवीराश्च नष्टास्तद्वाणपीडिताः ॥ २१३ || इतश्व पालगोपालौ, भग्नानालोक्य सैनिकान् । प्रविष्टौ भूपसैन्यान्त वर्षन्तौ बाणधोरणीम् || २१४ || भूपसैन्ये तदा भग्ने, कुमाराभ्यां क्षणादपि । किं कर्त्तव्यतया व्यग्रो ऽभवद् भूपो बलोज्झितः ।। २१५ ।। इतश्वावसरे पाल - गोपालौ पितरं निजम् । जित्वा प्रणेमतुर्भक्त्या, तौ विनीतशिरोमणी ।।। २१६ ।। किमेतदिति भूपेन, पृष्टे मन्त्री जगौ तयोः । वृत्तान्तमादितः सर्वं हृष्टस्तुष्टाव तं नृपः ॥ २१७ || उज्जयिन्यां समायाताः सर्वे भूपादयस्ततः । मातुः पदाम्बुजे भृङ्ग-भूयं भेजे सुतद्वयम् ।।२१८|| इतश्च तत्पुरोद्याने, मुनिर्ज्ञानी समागतः । सपुत्रो नृपतिर्नन्तुं ययौ भक्तििवशंवदः ।।२१९॥ श्रुत्वा तद्देशनां