________________
॥१०॥
* मणिस्वर्णाद्यलकारा, जाताः शीलप्रभावतः ॥१७९॥ आकाशे देवताऽवादीत् पालस्तुतिविधायिनी । मुच्यतां निष्कलकोऽयं मुक्त्वा तैरपि
सत्कृतः ॥१८०॥ इति तृतीया विपत् ॥ * मुक्त्वा सार्थं ततः प्राप्त-स्ताम्रलिप्त्याः स सन्निधौ । ग्रीष्मे भीष्मे तृषाक्रान्तो, मूर्छितो न्यपतद् भुवि ॥१८१॥ पुनरागतचैतन्यः, सर्प
सस्मार दैवतम् । आनीय शुचिपानीयं, पिबेति स सुरो जगौ ॥१८२।। गोवृन्दस्तावता तत्रा-गतं बहुतृषातुरम् । आलोक्य तज्जलं पातु-मीहते # पालगोपाल निर्जले वने ॥१८३॥ दध्यौ पालः पुरा चाहं, तृषितेष्वेषु जन्तुषु । पीतवान् न पयो भोज्यं, भुक्तवान्नैव कर्हिचित् ॥१८४॥ ध्यात्वेति त्रिदशं
कथा प्रोचे, दयावानन्यजन्तुषु । पयः पेयं मया नैतद्, गोवृन्दे तृषिते सति ॥१८५।। ततस्तटाकपूरं स, त्रिदशो वृष्टिमातनोत् निपीय तत्पयो गावः, ॥१०॥
पालश्च सुखितोऽभवत् ॥१८६ ।। इति चतुर्थी विपत् ।। अ ताम्रलिप्तीपुरोद्याने, गतो भूपतिनन्दनः । ददर्श ददतीं दानं, सत्रे सौभाग्यमञ्जरीम् ॥१८७॥ दम्पत्योः सङ्गमे तत्र, हषोत्कर्षः स
कोऽप्यभूत्। विभज्य स्थाप्यमानोऽपि, ममौ न जनहृत्सु यः ॥१८८॥ तत्रागाद्धनदत्तोऽथ, द्रष्टुं सौभाग्यमञ्जरीम् । पालमालोक्य भीतात्मा, पश्चादेव गतः पुनः ॥१८९।। आरक्षकान्ते गत्वाथ, प्रोवाचेदं स दुष्टधीः । मम सत्रगृहे चौरः, प्रविष्टोऽस्ति निगृह्यताम् ॥१९०॥ आरक्षकभटै गेंहं, वेष्टयित्वाथ हकितः । गृहीत्वा क्षुरिका हस्ते, पालोऽपि बहिराययौ ॥१९१॥ भित्तिपाश्र्वं गृहीत्वास्थात्, पालः साहसिकाग्रणीः । भ्रमयनभितः शस्त्रीं, वैरिबाणानिवारयन् ॥१९२॥ गृहीतुं शक्यते नैव, रक्षकैः कथमप्यसौ । यदा तदा स भट्टेन, द्विषता मायया स्तुतः ॥१९३॥ पालः प्राह ददे किं ते, साम्प्रतं धनवर्जितः । स जगौ क्षुरिकां देहि, दत्ता तेनापि सा ततः ॥१९४।। अशस्त्रोऽथभटैर्वद्धः, स कथञ्चन भूपभूः।
शूलारोपकृते वध्य-भूमौ नीतश्च यावता ॥१९५॥ याः पयः पायिता गावस्तत्र तास्तावताऽगमन् ॥ कृत्वा गौरम्भसंरम्भं, वेष्टयित्वा च तं स्थिताः EV॥१९६॥ गोभिर्निहत्य चरणैः, केऽपि शृङ्गैश्च पातिताः । आरक्षभटाः सर्वे, नंष्ट्वा जग्मुर्दिशोदिशम् ॥१९७।। त्रोटयित्वा द्रढान् बन्धा* निस्तीर्णगुरुसङ्कटः । सत्रागारे स तत्रागात्, सुभटैकशिरोमणिः ॥१९८॥ इति पश्चमी विपत् ॥ . .