________________
ज
॥१२॥
पाप-नाशिनीं प्राह भूपतिः। मम बृद्धिः कथं जाता, पुत्रयोरपि मारणे ॥२२०।। गुरुः प्राह शृणु मापऽभूतां द्वौ क्षत्रियौ पुरा । मृगया) * वनं प्राप्तौ, तावन्येयुर्धनुर्धरौ ॥२२॥ कुरङ्गदम्पती तत्र, हतौ ताभ्यां शरैः शितैः । मृतौ चिरं भवे भ्रान्तो, सहमानावतिव्यथाम् ॥२२२॥ अकामनिर्जरापुण्याद्, मृगजीवोऽभवद्भवान् । मृगी जीवः पट्टराज्ञी, महालक्ष्मीरभूत्तव ॥ २२३॥ इतश्च क्षत्रियौ तौ तु, मार्गे मुनिमपश्यताम्
। वृद्धेनोद्वेजितः साधुः, पञ्चवारानवज्ञया ॥२२४॥ मुनिना शान्तिगेहेन, बौधितौ तौ दयालुना । श्राद्धधर्म समासाद्य, हृष्टौ नगरमागतौ पालगोपाल ॥२२५॥ श्राद्धधर्ममथाराध्य, सुचिरं क्षत्रियौ मृतौ । तनयौ पालगोपालौ, सञ्जातौ तव भूपते ! ॥२२६॥ पूर्ववैरानुभावेन, पुत्रौ पर्यभवत्तव
कथा । महालक्ष्म्याश्च कोपाद्यन्नान्यथा कर्मनिर्मितम् ॥२२७।। मुनिसन्तापनात् पाल;, प्राप्तः पञ्च विपद्यथा । श्राद्धधर्मानुभावाच, लेभे साम्राज्यसंपदः ॥१२॥ ॥२२८॥ इति श्रुत्वा विरक्तात्मा, दत्त्वा राज्यं महीपतिः । पालाय श्रीविशालायाः, स्वयं चारित्रमग्रहीत् ॥२२९॥ पालयित्वा चिरं दीक्षां,
राजा सुगतिभागभूत् । आर्तध्यानान्महालक्ष्मी, मृत्वागानरके पुनः ॥२३०॥ भूपती पालगोपालौ, प्रासादान् श्रीजिनेशितुः । कारयन्तौ
समुत्तुङ्गान्, ददानी दानमुत्तमम् ॥२३१॥ पूजाप्रभावनौनत्यं, कुर्वन्तौ जिनशासने । पालयामासतुः स्वं स्वं, राज्यं प्राज्यमहोदयम् ॥२३२॥ म एकदा मिलितौ तौ तु, विशालायामुभावपि । पौषधव्रतमास्थाय, तस्थतुः शुभभावनौ ॥२३३॥ इतश्च ततस्थैर्य-स्तुतिं वास्तोष्पतिळघात् । सो निशम्यासहमानस्तां, कश्चित्तत्राययौ सुरः ॥२३४॥ तेन नाक्षुभ्यतां नानो-पायैस्तौ क्षोभितावपि । अलं कम्पयितुं मेलं, किं कल्पान्तमहाबलः
॥२३५॥ पौषधव्रतमाराध्य, क्रमात् स्वः सौख्यमापतुः । ततो महाविदेहेषु, मुक्तिसौख्यमवाप्स्यतः ॥२३६॥ श्रुत्वेति पालगोपाल-चरितं चित्रदायकम् । कार्यः पौषधशीलादिधर्मे यत्नो मनीषिभिः ॥२३७।।
श्रीमत्तपालगणनमोऽङ्गणसूर्यकल्प-श्रीसोमसुन्दरगुरुक्रमपद्मभृङ्गः। मन्याऽङ्गियोधविषये सुगमार्थपथै-बक्रे कतानकमिदं जिनकीर्तिरिः ॥२३८॥