________________
श्रीअगडदत्त
चरित्रं ॥१६॥
॥१६॥
C. चा-पश्यन् ज्येष्ठसहोदरम् ॥२९८॥ ततस्ते वैरशुद्धयर्थं, रथाध्वानमनुश्रिताः ॥ प्राप्तः शङ्खपुरेऽद्राक्षु-स्तं कुमारं भटैर्वृतम् ॥२९९॥ कुमारमारणच्छिद्रं, 6 D वीक्षमाणाश्च तेऽन्यदा ॥ उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ॥३००॥ तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना ॥ दष्टा तस्याङ्गना
तां च, कुमारो ज्ञातवान् मृताम् ॥३०॥ ततस्तया समं मोहात्, कुमारे मर्तुमुद्यते ॥ आयातं खेचरयुगं, कृपया तामजीवयत् ॥३०२॥ विहायोद्यानमासने, गत्वा देवकुले ततः ॥ विमुच्य कामिनीं तत्र, कुमारो वह्नये ययौ ॥३०३॥ चिराल्लब्धच्छलास्ते तु, छन्नं देवकुले स्थिताः । अत्रागतममुं हन्म, इति पञ्चाप्यचिन्तयन् ॥३०४॥ अन्यानिवार्य चतुरः, चतुरश्छद्मकर्मणि ॥ तद्विघातकनिष्ठोऽस्था-त्कनिष्ठो द्वारसन्निधौ ॥३०॥ विस्मेरकौतुकः सोऽथ, तज्जायारूपमीक्षितुम् ।। चिरसङ्गोपितं दीप-माविश्चक्रे समुद्कात् ॥३०६॥ ततो निरीक्ष्य तं जाता-नुरागा सैवमब्रवीत् ॥ सौम्य ! त्वं भव भर्ता मे, मरिष्यामि न चेदहम् ॥३०७।। मुग्धे ! त्वां कामये काम, विभेमि त्वत्पते: me परम् ॥ तेनेत्युक्ता च सा क्रूराशया पुनरदोवदत् ॥३०८॥ अधुनाहं हनिष्यामि, स्वपतिं तव पश्यतः ॥ तन्मा भैषीस्तयेत्युक्तः, स दीपं निरवापयत् ॥३०९॥ अचिन्तयच्च यो मर्तु-मुद्यतोऽभूत्सहानया ॥ कान्तं तमपि दुष्टेयं, मयि रक्ता जिघांसति ॥३१०॥ हरिद्रारागया नन्मे, कृतमङ्गनयानया ॥ विषवल्लीमिव क्रूरो-दका नारी हि कः श्रयेत् ? ॥३१।। अस्या दुष्टस्त्रिया योगा-द्विद्यते मृत एव यः ॥ विपक्षस्यापि स्याथ, मारणं नो न युज्यते ॥३१२।। तत्सर्वथा वराकं तं, जीवयिष्यामि साम्प्रतम् ॥ तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ॥५१३।। आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना ॥ स्वकान्तामित्यपृच्छच्च, ततः सा कुटिलाब्रवीत् ॥३१४॥ स्वपाणिस्थज्वलद्बहेः, प्रकाश इह सङ्कमात् ॥ दृष्टो भावीति तन्मेने, सरलः सोऽपि सूनृतम् ॥३१५।। अथ पत्न्याः प्रदायासिं तस्मिन् धमति पावकम् ॥ कोशात्कृपाणमाकृष्य, घातं यावन्मुमोच सा ॥३१६॥ तावत्कुपारसाम्भोधि-रसौ भिल्लाधिपानुजः । अपहस्तेन हस्त्वासिं, पातयामास भूतले ॥३१७।। तच्च स्त्रीरितं प्रोचे, सोदराणां स दारुणम् ॥ ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः ॥३१८॥ कुमारेदं तब प्रोक्त-मेषां वैराग्यकारणम् ।। १ज्येष्ठवन्धम् । २ विज्ञः । ३ छनकर्मसु इति हर्षप्रती । ४ सम्पुटात् । ५ भयङ्करायतिफलाम् । ६ सत्यम् । ७ वहिम्।