________________
श्रीअगडदत्त
चरित्रं ॥१३॥
तं च वञ्चयितुं न्यास्थ-दुत्तरीयं तदग्रतः ॥२३६।। प्रतुं तत्र दन्ताभ्यां, नीचैर्जातं च तं गजम् ॥ उत्प्लुत्यारोहदत्यर्थं, खेदयित्वा मुमोच च ॥२३७॥ रथमारुह्य गच्छंश्च, पुरो व्याघ्रं विलोक्य सः ॥ हित्वा रथमगात्तस्य, सम्मुखं विकसन्मुखः ॥२३८॥ तमायान्तं प्रति व्याघ्रः, m क्रोधोऽषितकेसरः ॥ पुच्छमाच्छोटयन् ब्यात्तवक्त्रो यावदधावत ॥२३९॥ तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखे ॥ जधानापरपाणिस्थकृपाण्या निष्कृपः स तम् ॥२४०॥ पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः ॥ दूरादध्वनि निःशूकं, दन्दशूकं ददर्श सः ॥२४॥ अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः ॥ धमनीस्फारफूत्कारं, प्रचण्डं यमदण्डवत् ॥२४२॥ लोहिताक्षं कालकान्ति-मायन्तं वीक्ष्य तं ॥१३॥ भयात् ॥ कम्प्राङ्गी व्यलगत्पत्युः, कण्ठे मदनमञ्जरी ॥२४३।। [ युग्मम् ] भुजङ्गागीरु ! मा भैषी-रित्युक्त्वा भूपभूस्ततः ॥ तन्नेत्रगतिवक्त्राणि, स्तम्भयामास विद्यया ॥२४४॥ आहितुण्डिकवद् भूरिः, क्रीडयित्वा मुमोच तम् ॥ इत्थं कथञ्चिदुल्लध्याऽरण्यं शङ्गपुरे ययौ ॥२४॥ यच्च तस्य बलं भिल्ल-बल्लानष्टमभूत्पुरा ॥ तदप्यन्येन मार्गेणाऽययौ भूपभुवोन्तिके ॥२४६॥ तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः॥ अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमुद्यतः ॥२४७॥ अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः ॥ गत्वा ननाम भूपीठ-न्यस्तशस्तस्वमस्तकः ॥२४८॥ ततः प्रमोदाश्रुजल-क्लिननेत्रो धराधवः ॥ तमालिङ्ग्य निवेश्याङ्के, मूर्ध्नि जघ्रौ मुहुर्मुहुः ॥२४९।। उत्तम्भितध्वजे बद्ध-तोरणे स्वपुरे च तम् । प्रियाद्वयान्वितं हस्त्या-रूढं प्रावीविशन्नृपः ॥२५०॥ ततो गतो गृहेऽनंसी-त्स सवित्री वधूयुतः॥ पुत्र ! त्वमक्षयो भूया, इति साप्याशिषं ददौ ॥२५१॥ भोजनान्तरं पित्रा, पृष्टः पुत्रो यथातथम् ॥ सर्व स्ववृत्तमाचख्यौ, सर्वेषां विस्मयावहम् ॥२५२॥ ततो राज्ञा यौवराज्ये, स्थापितो मोदयन् जनान् ॥ कुर्वाणो विविधाः क्रीडाः, स कालं कञ्चिदत्यगात् ॥२५३।। अन्यदानङ्गभूपाज्ञा-वर्त्तिनं जनयन् जनम् । दुमान् विभूषयन् सर्वान्, मानवानिव यौवनम् ॥२५॥ मानिनीमानकुट्टाक-कलकोकिलकूजितः ॥ मत्तद्विरेफझङ्कारमुखरीकृतदिग्मुखः ॥२५५॥ विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः ॥ मदमुत्पादयन्, यूनां, प्रावर्त्तत मधूत्सवः ॥२५६॥ १. रथम् २. सर्पम् । ३. गारुडी० । ४. भूशक्रः । ५. जननीम् ६ द्विरेफ: भ्रमरः ।
8888888888