________________
श्रीअगडदत्त
चरित्रं ॥१२॥
विधाय वः ॥२१५॥ इत्युक्त्वा स व्रती-गत्वाऽऽनीय दध्याज्यपायसम् ॥ कुमारमवदत्पुत्र !, कृतार्थय मम श्रमम् ॥२१६॥ प्रत्युत्पन्नमतिः सोऽथ, प्रोचे मौलौ व्यथास्ति मे ॥ ऋषिभोज्यं च नो कल्प्यं, तनेदं भोक्ष्यते मया ॥२१७।। इत्युक्त्वा वारयनेत्र-सञ्ज्ञया सार्थिकांश्च सः॥ कुशिष्या इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ॥२१८।। विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाप्नुवन् । ततोऽधावच्छरान्मुञ्चन्, ns कुमारं प्रति स व्रती ॥२१९॥ कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् ॥ पातयामास तं पृथ्व्यां, ततः सोप्येवमब्रवीत् ॥२२०॥ अहं दुर्योधनाह्वान-चौरः केनाप्यनिर्जितः ॥ त्वयैकेनैव बाणेन, प्रापितः प्राणसंशयम् ॥२२१॥ त्वद्वीर्य वीक्ष्य तुष्टोन्त-र्वमि ते सूनृतं ॥१२॥ वचः ॥ वामतोऽस्माद्रेिमध्ये, नद्योरस्ति सुरालयः ॥२२२॥ तस्य पश्चिमभागे च, सज्जिता विद्यते शिला ॥ तां प्रेर्य प्रविशेर्वामभागस्थे । भूमिधामनि ॥२२३॥ तत्रास्ति रूपलावण्य-पुण्यागी नवयौवना ॥ नाम्ना जयश्रीः पत्नी मे, द्रविणं चातिपुष्कलम् ॥२२४॥ तत्सर्वमात्मसात्कुर्या, दद्याश्चाग्निं मृतस्य मे ॥ वदनेवं क्षणाद्दस्यु-र्दीर्घनिद्रामवाप सः ॥२२५।। ततो दारूणि सम्मील्य, तं प्रज्वाल्य महीशसूः ॥ रथमामरुह्य तत्प्रोक्ते, ययौ देवकुले द्रुतम् ।।२२६॥ शिला चोद्घाट्य तेनोचैः, शब्दिता दस्युसुन्दरी ॥ मध्येसौधं समेहीति, समेत्य तमभाषत ॥२२७।। तद्रूपं च जगज्जैत्रं, कुमारो यावदैक्षत ॥ तं जघानापहस्तेन, तावन्मदनमञ्जरी ॥२२८॥ इति चाख्यन्मया सख्यः, पितरौ स्वजनास्तथा । त्यक्तास्तवकृते त्वचा-ऽत्रपः कामयसे पराम् ॥२२९॥ ततोऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् । विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् ॥२३०॥ लङ्घमानश्च गेहन, गहनं स्त्रीचरित्रवत् । पुलिन्दवृन्दमुत्रस्त-मपश्यनश्यदुचकैः ॥२३१॥ किमस्ति मत्तहस्तीति, ध्यायंश्वायं व्यलोकयत् ॥ यावत्सर्वादिशस्ताव-इदशैकं मतङ्गजम् ॥२३२॥ उदस्तेन स्वहस्तेन, पातयन्तं पतत्रिणः ॥ मूलादप्युन्मूलयन्तं, पादपान् सिन्धुवेगवत् ॥२३३॥ मदाम्बुनिर्झरक्लिन, सितं सितमरीचिवत् ॥ उग्रदन्तं महापादं, कैलासमिव जङ्गमम् ॥२३४॥ तं मत्तानेकपं प्रेक्ष्य, त्रस्तां मदनमञ्जरीम् ॥ आश्वास्योदतरतूर्ण, स्यन्दनान्नृपनन्दनः ॥२३५॥ [ त्रिभिर्विशेषकम् ] ययौ च सम्मुखं तस्य, धैर्याधरितभूधरः ॥ १. देवकुलम् । २. मरणम् । ३. अपसारणार्थे हस्तः तेन । ४. निर्लज्जः । ५. वनम् । ६. हस्तिनम् । ७. रथात्। ..
8888888888