________________
॥
G स्मयं मा स्म कृथा वृथा ॥१९५।। इत्युदीर्य मृते तस्मिन्, भूपभूः स्वपरिच्छदम् ॥ प्रेक्षमाणोऽपि नैक्षिष्ट, नंष्ट्वा कापि गतं तदा ॥१९६॥
एकेनैव स्यन्दनेन, ततो गच्छन्नृपाङ्गजः ॥ उल्लङध्य तामरण्यानी-मेकं गोकुलमासदत् ॥१९७॥ निर्गत्य गोकुलाच द्वौ, पुरुषो तमपृच्छताम् ॥ श्रीअगडदत्तक यास्यतीति स स्माह, यामि शनपुरे ह्यहम् ॥१९८॥ आवामपि त्वया सार्ध-मागच्छावो यदीच्छसि ? ॥ इति ताभ्यां पुनः पृष्टो
चरित्रं वादीदोमिति भूपभूः ॥१९९॥ रथे चाश्वौ योजयन्तं, तमेवं, तावबोचताम् ॥ अस्त्यत्र मार्गे कान्तारं, क्रूरश्वापदसङ्कुलम् ॥२००॥ चौरो ॥११॥ दुर्योधनाह्वान-स्तत्र तिष्ठति दुर्जयः ॥ मत्तो हस्ती दृग्विषश्च, ब्यालो व्याघ्रश्च दारुणः ॥२०१॥ तदध्वानममुं मुक्त्वा, सौम्य ! गच्छाधुनामुना ॥
सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत कः ? ॥२०२॥ प्रोचे कुमारोऽस्मिन्नेव, मार्गे गच्छत निर्भयाः ॥ ससुखं प्रापयिष्यामि, युष्मान् शङ्कपुरे । द्रुतम् ॥२०३॥ तच्छुत्वा तौ नरावन्ये, चाध्वनीना धनान्विताः ॥ चेलुस्तेन समं मीना, इवान्धेः स्रोतसा सह ॥२०॥ तदा चैको
जटाजूट-मुकुटाङ्कितमस्तकः ॥ त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूधनः ॥२०॥ महाव्रती समेत्यैवमुवाच नृपनन्दनम् ॥ पुत्र ! शशपुरे र देवा-नन्तुमेमि त्वया समम् ॥२०६॥ [ युग्मम् ] किन्तु मत्सन्निधौ स्वर्ण-दीनाराः सन्ति केचन ।। देवानां बलिपूजार्थ, दत्ता धार्मिकपूरुषैः ne ॥२०७।। तानादत्स्व यथा मार्गे, ब्रजामो निर्भयं वयम् ॥ धने हि निकटस्थे नः, साशई स्यान्मनो भृशम् ।।२०८॥ इत्युदित्त्वा कुमाराय,
स धनग्रन्थिकां ददौ ॥ आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः ॥२०९॥ स च गानेन नृत्येन, चेष्टाभिर्गतिभिः स्वरैः ॥ कथाभिर्विविधाभिश्चाऽरञ्जयत्पथिकान् पथि ॥२१०॥ न तस्य व्यश्वसीद्भिक्षु - वेषस्यापि नृपात्मजः ॥ अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ॥२११॥ वाहांश्च वाहयंस्तूर्णं, कान्तारान्तर्जगाम सः ॥ तदा च राजपुत्रादीन्, जटिलः सोऽब्रवीदिदम् ॥२१२॥ एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कुलम् ॥ वर्षारानं तत्र चाहं, गतवर्षे स्थितोऽभवम् ॥२१३॥ तत्रत्यानां बल्लंबाना-मत्यर्थ बल्लभोऽस्म्यहम् ॥ सर्वेषामात्मनां तस्मा-तेऽद्य दास्यन्ति भोजनम् ॥२१॥ गत्वाऽऽगच्छामि तद्याव-त्तावदत्र प्रतीक्षताम् ॥ करोमि सफलं जन्म, यथातिथ्यं १. सर्पः । २. पान्थाः । ३. हयान् । ४. आभीराणाम् ।
888888888
888888888