________________
॥१३॥
सुपात्रदान मेघनादराज मदन कथा ॥१३॥
नमस्कृतो नाद्य मया जिनेशः, प्रयामि नूनं नियमोऽस्ति यस्मात् ।
करं समाच्छादय मे पटेन, प्रक्षालिते गच्छति यद्रसोऽयम् ॥१॥ तदनु धन्या दध्यौ-एकवारमपि देवतानां कृतः प्रणिपातो दिनकृतदुरितविध्वंसनाय भवति, नियमे गृहीते भवशतसहस्रपातकानि प्रलीयन्तेऽस्य. मद्भर्तुर्महती नियमदृढता तथा सहजकार्पण्येनान्नरसपरिहारे कातरोऽपि च, परमेवंविधोऽपियदिनियमबद्धोऽयजिनगृहे यास्यति तदा कदाचिदधिष्ठायकसुरः प्रत्यक्षोऽपिभावी, यदद्य मया स्वप्नेऽधिष्ठायकदेवप्रसन्नताभर्तुर्दृष्टेतिस्वान्ते विमृशन्तीपटेनतथा तंसमाच्छाद्यप्रोवाच-प्राणेश! देवप्रासादान्तः कोऽपि तव किमपि कथयति तदा मां पृच्छेरिति। ततस्तथाभूतकरः सः यावात्प्रासादे गत्वा जिनं नत्वा पश्चाद्वलितस्तावता तस्य नियमदायेण तुष्टोऽधिष्ठायकः । प्राह-भो भो ! तव नियमेन तुष्टोऽस्मि, याचस्व किश्चन स प्रोवाच-यावताऽहं भायाँ पृष्ट्वा समागच्छामि तावता प्रतीक्षस्व, देवोऽवादीत्भद्र ! याहि,
शीघ्रमागच्छे: तावताऽत्राहं स्थितोऽस्मि ! ततो धनराजःप्राप्तराज्य इव हृष्टः स्वगृहमागत्य प्रियां प्राह-तुष्टोऽद्य श्रीजिनदेवः कथय किं याचे, साजगाद१६ स्वामिन् ! सम्पन्नाः सर्वेऽपि नौ मनोरथाः प्राप्तं त्रिभुवनस्यापि साम्राज्यं, प्राणेश ! हस्तस्थैव शमैकराजधानी मुक्तिलक्ष्मीः तव, वशवर्त्तिन्यो ३९
भाविन्योऽतःपरमष्टौ महासिद्धयः ते, याहि, शीघ्रं प्रार्थय श्रीभगवन्तमहन्तं यथा हे जिनराज ! मम पापप्राहरिकान् सर्वान् दूरीकुर्विति । ततः प्रियादेशवशवर्ती जगाम जिनालयं पुनरपि तथैव धनराजः क्षिप्रखरटितकरः पुनः प्रणिपत्य ययाचे, भगवन् ! यदि प्रसन्नस्तर्हि मदीयान् पापप्राहरिकान् १६ दूरीकुरु कुरुच प्रसादं। ततः सन्तुष्टेन जिनाधिष्ठायकसुरेण प्रोक्तं-भद्रं ! तथा तव भविष्यतीति, संदेहं मा कार्षीः। तदनु धनराजः स्वगृहमागतः, भार्या 38 ३६ दध्यौ पापप्राहरिकाऽस्य गतास्तर्हि विलोकयामि किं कर्ता, एवमेवानं भोक्तुमुपविशति नवेति यावञ्चिन्तयति तावता धनराजः सञ्जातविवेकः ३६
कथयामास, प्रिये ! अन्नरसाशुचिर्मम हस्तस्तथा बहिरभ्यटितश्चगमनाऽऽगमनेन तेन समानय जलं यथा प्रक्षालयाम्येनं करं अशुचिमिति। धन्यया हृष्टया तथाकृतं ततः प्रक्षालितकरकमलः स भुक्तवान् । धन्या दध्यौ नूनं फलितं भाग्यं यदेतस्य पापप्राहरिकाः गताः, कियानपि विवेकः समायातः