________________
ទំនុំ
सुपात्रदान मेघनादराज मदन कथा ॥१२॥
॥१२॥
निधानलक्ष्मीः किमु वा प्रनष्टा, हानिर्बभूव क्रयविक्रये वा॥४॥ अथ धनराजआहः-मुग्धे ! न जानासि विना धनानि, न कोऽपि मैत्री समुपैति लोके। प्रकाशयन् भाति वणिग्जनो हि, सामान्यवेषं न पुनर्विशेषम् ॥५॥ अद्य त्वया चीनकधान्यमुष्टिर्द्विजाय दत्ता सदनाऽऽगताय।
वज्राहतात्मेव ततोऽस्मि जातो, मुधाकृतेन द्रविणव्ययेन ॥६॥ इति श्रुत्वा दृढतमं कार्पण्यं ज्ञात्वा धन्या तच्चित्तानवृत्तिपरा तस्य हितार्थ पुनरभाणीद्वचनं-प्रियतम ! अतः परमहं पतिव्रता सती एवंविधमपि व्ययं न करिष्यामि, परं स्वामिन् ! यस्मिन्धर्मेऽर्थव्ययो न भवति ततः पुण्यं कस्मान क्रियते, कुरुष्व जिनदर्शनं, वन्दस्व जिनमुनीन्, श्रृणु धर्मकथां क्षणं। Sta धनराजः प्राह-प्रिये ! यदि जैनमुनीनेतान् वन्दे तदा मामेतैस्सह परिचयः स्यात्, तत एते मां विप्रतार्य मुष्णन्ति-यथा भद्र ! क्रियते द्रव्यव्ययेन A देवपूजा, कार्यन्ते देवप्रासादाःस्थाप्यन्ते तत्रप्रतिमाः, पूज्यन्ते सङ्घाः, दीयते दीनादिभ्यो दानं, प्रतिलाभ्यन्ते साधवः, क्रियते साधर्मिकाणां वात्सल्यं, अर्प्यते जिनगुणगायनेभ्यो द्रव्यं क्रियन्ते तीर्थयात्राः, मोच्यन्ते बन्दिपतिताजीवाः लेख्यन्ते श्रुतपुस्तका इति च कुर्वतःसतोऽचिरेणापिक्षीयते मम धनं, ततो प्रिये ! अहं तव वचसाऽत्राऽऽसन्नप्रासादे श्रीजिनं नत्वा भोक्ष्ये इति नियमं यावज्जीवम् प्रतिपन्नोऽस्मि, श्रीजिनो हि वन्द्यमानः कस्यापितृर्ति नकुरुते । न च तत्राऽर्थव्ययः । इति भर्तुंर्वचसा सहर्षाऽभवत्त्वयि एतावता जन्मसाफल्यमिति प्रत्यवादीच्च धन्या, एवं कालो गच्छति।।
- अन्यदा मध्याह्ने पोट्टलकमुत्तार्य क्षुधाक्रान्तश्चरणप्रक्षालने मुधा जलव्ययो भवति अधौतपाद एव भोजनायोपविष्टः, प्रियया परिवेषितं, सतैलक्षिप्रचटं परिमृद्य तद्रसलिप्तकरो यावता स कवलमादत्ते तावता नियममस्मार्षीद्धनराजः प्रियां प्रति प्रोवाच च