________________
॥११॥
36 . आसीत् श्रीसूर्यपुरे एको भारवाही भीमनामा वणिक् सौगन्धिकः, सदा पोट्टलकं वहन् स तैलक्षिप्रचटेन भोजनमेकवेलामेव कुर्वाणो धनसश्चयाय ३६
चैकेनैवस्थूलवस्त्रेण वर्षपञ्चकं निर्वाहमाणो वसति स्म, सधर्म स्वप्नेऽपि न विन्दते स्म। देवगुरूनपिनाश्रौषीच्च, पर्वदिनान्यपिनाऽज्ञासीत्। स्वजनवर्गेण । सुपात्रदान च सह कदापि व्ययभीरुतया नामिलत्, नागच्छद्देवताभवने केवलमर्थचिन्तापरो दैवगत्या द्रम्मलक्षमुपार्जयत् । तस्य चैकः पुत्रः सञ्जातः स्वसममेघनादराज ३६ प्रकृतित्वात्पूर्वजानेष उद्धरिष्यतीति मुमुदे । अथ चान्त्यसमये हे वत्स ! मया भारवाहिना एतावद्रव्यमर्जितं, प्रत्यासन्नमृत्युनोच्यते वत्स ! त्वमपि मदन० कथा मवृत्तिमाचरन् द्रम्मलक्षमेतद्वर्धनहेतोस्स्थापयित्वा स्वोपार्जितेन योगक्षेमं कुर्वीथाः। मृते पितरि तेनापि भारवाहिना द्रम्मलक्षमर्जितमत्यासन्नमृतिना " ॥११॥
च पुत्रस्य तथैव शिक्षा दत्ता । ततस्तत्राऽपि तथैव भारवाही पूर्वजेभ्योऽपि द्विगुणकार्पण्यस्तथैव लक्षमर्जयामास, लक्षत्रयमपि च निधानीचकार, पञ्चत्वमापच्च । तस्य पुत्रो धनराजनामा सर्वेभ्योऽप्यतिशयकार्पण्यनैपुण्यः सञ्जातस्तथैव कुरुते स्म तस्य भार्या धन्याऽभिधा स्वभावत उदारा धर्मशीला ६च आहः
अथैकदाऽजल्पदनल्पदक्षा, धन्या प्रिये साऽवसरं समीक्ष्य । भारं वहंस्त्वं दिवसं च रात्रिं, न वेत्सि लोभातिचित्तवृत्तिः॥१॥ गृहेऽस्ति नौ पूर्वजसञ्चितोऽर्थः, त्वयाऽपि भूयान् समुपार्जितं स्वम् । कष्टं किमर्थं क्रियते न कोऽपि भोगे च पुण्येऽपि च न प्रवृत्तिः ॥२॥ गताः सतृष्णा द्रविणं विमुच्य, त्वत्पूर्वजास्तैः किमसाधि कार्यम् । मार्ग तदीयं त्वमपीह याता, धिग्जीवितं धिग्विभवं तवामुं ॥३॥ किं श्यामता ते वदनेऽद्य बह्वी, श्वासान्प्रलम्बान् किमु मुश्चसे च।