________________
॥१०॥
टायाभरणादीनि वस्तूनि, अनुभवति राजा पूर्वपुण्यानुभावेन मानुष्येऽपि दिव्यान् भोगान्, प्रति प्रातः प्रदत्ते स्म धनं दीनाय यतः
यथा धेनुसहस्त्रषु, वत्सो धावति मातरं । एवं कृताऽकृतं पुण्यं, कर्तारमनुगच्छति ॥१॥ सुपात्रदान
न कयं दीणुद्धरियं, न कयं साहम्मिआणं वच्छल्लं । हिययम्मि वीयराओ, न धारिओ हारिओ जम्मो ॥२॥ मेघनादराज
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं, दास्ये स्वामिभयं गुणे रिपुभयं वंशेषु योपिद्भयं । मदन० कथा १६
माने म्लानिभयं जये रिपुभयं काये कृतांताद्भयं, सर्व नामभयं भवेदिदमहो वैराग्यमेवाभयं ॥३॥ ___ समेघनादराजः दीनादिभ्यो दानं दिने दिने दशदशसुवर्णकोटी: ददते स्म सहस्त्रशो रौप्यादिमयान् जिनप्रासादान् स्थापयामास च, तेषु प्रासादेषु लक्षशतेन ख्यातां प्रतिमाप्रतिष्ठा महपुरस्सरं प्रावीवृतत् । प्रतिवर्ष तीर्थयात्रारथयात्राश्रीसङ्घसहिततीर्थयात्रादिमहोत्सवानचीकरच्च, सर्वप्रासादेषु समहोत्सवं स्नात्रविस्तरं चक्रे।कृताश्वतेनसाधर्मिकाः शुल्ककरमुक्ति मूलद्रव्यार्पणव्यवसायकारणादिकोटीश्वराः केचिल्लक्षपतयः, कुरुते स्मोभयकाल
मपि प्रतिक्रमणं, व्यरचयन्त्रिसन्ध्यं जिनार्चनं, अकरोत्प्रतिमासं लक्षभोज्यं साधर्मिकवात्सल्यं, प्रतिवर्ष कोटिवात्सल्यं चैकमकार्षीत् । समं A मदनमञ्जर्याऽयमदात्तेषांसाधर्मिकाणांक्षीरोदकचीनांशुकरत्नकम्बलप्रभृतिदेवदुष्यानुकारिवस्त्राणिसुवर्णमणिमयानिकटककेयूरादीनिसर्वाङ्गाभरणानि 35
च, पर्वसु चकार पौषधोपवासं सह त्रिभिर्भूपसहनै । पारणे तानभोजयच्च । दिने दिने वर्धते तस्य राज्यं, सहस्रं मूर्धाभिषिक्ताः नृपाः, पश्चाशत्कोटयो । ग्रामाःद्वात्रिंशत्सहस्राणिपुराणां, विंशतिविंशतिलक्षाः सामजानां तुरगाणांरथानांच, चत्वारिंशत्कोट्यः, पदातीनां, एवमेकं वर्षलक्षं राज्यमपालयत्।
__ अन्यदा श्रीपार्श्वदेवज्ञानीगुरुरागमत्तं स पप्रच्छ-भगवन् ! किं मया पूर्वभवे पुण्यं कृतं येनेद्दशी ऋद्धिः सिद्धिमात्राः प्राप्ताः कल्पवृक्षवत्, सर्वकामदं * कच्चोलकरत्नं प्राप्तं प्रवर्द्धमानराज्ययुक्तं गुरुराह-श्रृणु राजन् ! पूर्वभवसम्बन्धं, येन कृत्वा फलविशेषः स्यादिति । तथाहि :