________________
सुपात्रदान मेघनादराज मदन कथा
॥९
॥
वहमारणअन्भक्खाणदाणपरधणविलोवणाईणं । सञ्चजहन्नो उदओ दसगुणिओ इक्कसि कयाणं ॥२॥
तिव्वयरे उपओसे सयगुणिओसयसहस्सकोडिगुणो। कोडाकोडिगुणो वा हुज्ज विवागो बहुतरोवा॥३॥ इति. ततस्त्याज्या हिंसा वय॑मसत्यं परिहार्य परादत्तं न कामनीया परयोषित् न कार्या तृष्णा प्रतिपत्तव्यं परिग्रहपरिमाणं, इत्याकर्ण्य मेघनादः प्राह-'s ३६ भगवन् ! यदिराजादेशवशंवदत्वेनाऽज्ञातैरेकनरविनाशनात्तेषां चतुर्णा भवान्तरे इदृशो दुरन्तो विपाको जातस्तर्हि अस्माकं ज्ञात्वैवानेकान्जीवान्घ्ननां का गतिर्भवित्री, नरकेऽपि स्थानं न भावीति गुरुराह-कुमार ! सत्यमेतत् यदि परं संवृतात्मा द्वादशधा तपः कुर्यात्तदा कर्मणः क्षयः स्यात् यदुक्तं
दीप्यमाने तपोवह्नौ, बाह्ये चाऽभ्यन्तरेऽपि च । यमी जरति कर्माणि, दुर्जयान्यपि तत्क्षणात् ॥१॥ कुमारः कर्मविपाकाद्भीतस्ततोगुरोपाचे व्रतं ययाचे, गुरुराह-वत्स ! अद्यापितव पूर्वभवार्जितदानपुण्यस्य बहुभोगफलस्य निकाचितस्याऽनुभवान १६ चारित्रयोग्यता, ततोऽवश्यं भोक्तव्या एवं देवानामपि दुर्लभा भोगाः । कुमारो जगौ-भगवन् ! किं तैर्भोगसुखैः येषां विषानमिव दुरंतो विपाकः यतः
यद्वच्छाकाष्टादशमन्नं बहु भक्षपेयवत्स्वादु । विषसंयुक्तं भुक्तं, विपाककाले विनाशयति ॥१॥
तद्वदुपचारसम्भृतरम्यकरागससेविता विषयाः भवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः॥२॥ गुरुर्जगाद-कुमार ! सत्यमेवेदं परं शुभाऽशुभकर्मभ्यो न मुक्तिः तेनैकशतसहस्रं वर्षानन्तरं तब दीक्षा भाविनी तावता श्रावकधर्ममाराधय। ततः कुमारः पल्या सह द्वादशव्रतविस्तीर्ण श्राद्धधर्म जग्राह.
जातः कुमारस्य महाप्रवेशमहोत्सवः। राज्ञा कुमाराय राज्यं दत्त्वा श्रीगुरुपाचे दीक्षा गृहीता। मेघनादराजा कच्चोलकरत्नप्रभावेण प्रत्यहं सम्पद्यते मनःकामितानिधनधान्यमणिकनकमुक्ताफलकर्पूरकस्तूरीचन्दनगरवाडवीचीनांशुकक्षीरोदकरत्नकम्बलहारार्द्धहारकटककेयूरकुण्डलग्रेवेयकमुद्रिकामुकु