SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ॐ यतोऽयाननरस लिप्तः करः क्षालितः, एतावान् जलव्ययस्तैलरसान्नव्ययश्च न गणितः, मन्येऽतः परं मद्भर्तुर्दानान्तरायभोगान्तरायरुपपापप्राहरिकगमनात् प्रियो दानी भोगी धर्मवाँश्च भावीति । 韓 सुपात्रदान ३६ ततो द्वितीयदिने धनराजस्य जाता धर्मे बुद्धिः आगत्य स्नानं विधाय धौतवस्त्राणि च परिधाय पुष्पैः धूपैः फलैर्नैवेद्यैर्दीपैरक्षतैश्च कृता श्रीजिनार्चना, मेघनादराज मनःप्रसत्तिपूर्वमतिथिसत्कारपूर्वकं च भोजनं विहितवान् । तेन रूप्यमयानि भाजनानि, पानीययोग्या अपि ताम्रकलशा मृत्तिकाकलशाश्च कारिताः । 90 मदन० कथा ॥ १४ ॥ 韓 ततः प्राचीनकार्पण्यावस्थायां यानि प्रौढानि स्वयं गृहे उत्पालाबुबल्लीजातानि महान्त्यलाभाजनानि कणप्रक्षेपयोग्यानि जलयोग्यानि तानि सर्वाण्यपि 韓 雏 शुद्धानि दोषरहितानि जातानि तत् श्रद्धया मुनिभ्यो दत्तानि । तत्पुण्यं धन्ययाऽनुमोदितं । ततो धर्ममाराध्य धंनराजजीवस्त्वं मेघनादो नाम राजा जातः, ६ धन्याजीवस्त्वसौ तव भार्या मदनमञ्जरी जाता, पात्रदानमहिम्ना तव कच्चोलकरत्नं सर्वकामितदायकं सञ्जातं, एवंविधा च साम्राज्यसम्पद्धर्षलक्षं यावत् मानुष्येऽपि दिव्यभोगानुभवाः तवाऽपूर्वाः सञ्जाताः । 雏 韓 इति श्रीगुरुमुखात् स्वपूर्वभवं श्रुत्वा समुत्पन्नवैराग्यरङ्गः श्रीमेघनादो नरेन्द्रः स्वपुत्राय दत्त्वा श्रीजिनप्रासादेषु अष्टाह्निकामहोत्सवं साधर्मिकवात्सल्यं ॐ दीनादिदानं च विधाय मदनमञ्जरीयुतः प्रवव्राज, बहूनि वर्षाणि चारित्रमाराध्य श्रीकेवलज्ञानं च प्राप्य श्रीसुपात्रदानप्रभावत: द्वावप्यनन्तमव्ययं ६ मोक्षसुखमवापतुः 韓 韓 इत्यद्भुतं विशददानमयावदातैः, श्रीमेघनादनृपतेश्वरितं निशम्य । निछद्मदानविधये सुधियोऽवधत्त, येन स्वयं श्रयति वः शिवसौख्यलक्ष्मीः ॥ १॥ ************************** 韓 韓 ॥ १४ ॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy