________________
॥५॥
* ततो मेघनादेन पटहो वाद्यते स्म- 'योऽनयोर्विवेकं कुरुते तस्मै कोटिसुवर्ण दीयते' ततः स्वं बुद्धिमर्यादागृहं मन्यमानास्सहस्रशो नराः तत्राऽऽगच्छन्ति,
रचयन्ति स्म च नानाविधानुपायान् परं न जातस्तयोविवेकः कस्यापि बुद्धया। ततो मेघनादेन द्वे अपि क्षिप्ते मजुषामध्ये लघु छिद्रं कृतं प्रोक्तं च,
M सुपात्रदानाननाछद्रणमा
याऽनेनछिद्रेण बहिः समेष्यति सा सत्याऽन्याऽसत्या। ततो यथा प्रियतमाऽनेन लघुछिद्रेण कथमहं बहिरूपैमीति सत्या मानवीत्वेन वहिरागन्तुमशक्ता मेघनादराज वदति स्म तथाऽसत्याऽपि मायाविनी प्रोवाच । ततो मेघनादेन मा मे परनारी सङ्गपातकं भूयादिति यतःमदन कथा 2 चत्वारो नरकद्वाराः, प्रथमं रात्रिभोजनम् । परस्त्रीगमं चैव, सन्धानाऽनन्तकायिकम् ॥१॥
द्वे अपिदुःखातुरे भृशं रुरुदतुः, एवं षण्मासाव्यतिक्रान्ताः। ततोऽन्यदा समुत्पन्नबुद्ध्या सत्यया तदेव कच्चोलकं करे लात्वा याचितं, हे नागेन्द्र ! मे मायाविनीतो विवेकं कुरु, इति वचनासमकालमेव प्रत्यक्षीभूतो नागेन्द्रः, हक्किता तेन मायाविनी। ततो मदनमञ्जरीरूपं त्यक्त्वा स्वाभाविकी जाता जगौ च हे नागेन्द्र ! अहं भ्रमरशीला नाम विद्याधरी तस्य राक्षसस्य भगिनी, स्वभ्रातुमृत्युना सञ्जाता कोपा मेघनादं विनाशयितुमत्रागाम्, अस्य रूपं सौभाग्यातिशयं दृष्ट्वाऽत्रानुरक्ता जाता, परमेनं परनारीपरामुखं मत्वा मदनञ्जरीरूपमकार्षम् । मदनमञ्जर्याः सत्याया देशान्तरमोचनाय बहुपक्रान्तं,
परमियं सती शीलमहिम्ना सम्यक्त्वदृढतामहिम्ना च मया अपहर्तुं नाऽऽशक्यते। मेघनादश्च मया सविशेष हावभावविभ्रमकटाक्षविक्षेपभूभङ्गादिभिः । । मेघावसरे विद्युत्क्षोभितः परं न क्षुब्धम् वज्रपरमाणुभिर्घाटतमस्य मनः इत्युत्तवा स्वापराधान् नागेन्द्रं मेघनादं तद्भार्यां च क्षमयित्वा त्रैलोक्यविजयकारक कुमाराय हारं दत्त्वा तिरोधत्त। अदृशीभूता राक्षसी। उपसर्गे निवृत्ते नागेन्द्रोऽपि जगाम निजंधाम। ततः सातप्रमोदः कुमारोऽपिप्राप निजपुरोद्यानं। लक्ष्मीपतिनृपोऽपिपूर्वसमायातपुरुषमुखाच्छ्रुत्वा कुमारावृत्तान्तं प्रमोदभरमेदुरः सर्वसैन्यैः सह सम्मुखमागतः सविनयं प्रणतश्चकुमारेण। ततो जायमाने । प्रवेशमहोत्सवोपक्रमे बहुपौरवर्ग स्वस्वपरिवारयुतं कापि वनान्तरेऽन्यत्र यान्तं वीक्ष्य कुमारो नृपंप्राह-तात ! एते पौराः कयान्ति, राजाऽवादीत्-वत्सोऽद्य
धर्मघोषाभिधो ज्ञानीजैनमुनिरत्राऽऽगतोऽस्ति तद्वन्दनार्थमेते सर्वे जना वज्रन्ति, मयाऽपिसम्प्रति तव सवधूकस्य प्रवेशमहो विधास्यते, कल्येऽपरेयुर्वाऽस्य १६ वन्दनार्थ यास्यते, त्वयाप्यागन्तव्यं तदा । ततो जगाद मेघनादः पायसे शर्करा प्रक्षेपवत् महोत्सवे महोत्सवान्तरागमनवदद्य प्रवेशोत्सवदिने ?