________________
सुपात्रदान
॥२
॥
३ त्वामिति स जगौ। कुमारः प्राह हो रक्षःपते ! साधु कुलोचितमाचरति भवान्, परमहं मदनमञ्जर्याः पाणिग्रहणाय यातोऽस्मि पणपूरणपूर्वकमस्याः ।
करग्रहं कर्तुं, तेन साम्प्रतं मां मुञ्च, कृतार्थोऽप्यकृतार्थोऽप्यनेनैव पथा समेष्यामि, तव समीहितं च करिष्यामि तत्समये सत्यप्रतिज्ञोऽहं । इत्युक्ते
राक्षसोऽवादीत्-सत्पुरुषः चेत्तर्हि याहिसाधय स्वीयकार्य, इतश्चपश्चिमदिशिममायतनमस्तितत्राऽऽगच्छेः। इत्युक्त्वागतोराक्षसः कुमारोऽपि कियता मेघनादराज कालेन चम्पापुरी प्राप्तः, शुश्राव वीरः पटहं वाद्यमानं पस्पर्श च । ततो नीतो राजसभामारक्षकैः। मदन कथा इतश्च राज्ञा कारिते स्वयंवरमण्डप आगता दूताहूताः सहस्रशो राजानः, अत्रान्तरे च केनाप्यपहृता कन्या, तारंतारं रुरोद स्वजनवर्गः, जातः
चिन्तापरो राजा। मन्त्री प्राह-राजन् ! केनापि व्यन्तरेण विद्याधरेण वा भारण्डादिपक्षिणा वाऽपहृता कन्या, ततः सर्वेऽप्येते भूपालाः पृच्छ्यन्ते,a योऽष्टाङ्गनिमित्तबलेन कन्यायाः शुद्धिं ज्ञात्वा, तत्र च स्वविज्ञानविरचितगगनगामिकाष्ठगरुडेन गत्वा, धनुर्वेदकलया जित्वा च कन्यापहारिणं, यदि ३६ चापहर्ता भारण्डादिः पक्षी स्यात्तदा सर्वजीवभाषाज्ञानकलया तं प्रज्ञाप्य च तामत्रानयेत् तस्मै दीयते कन्या इति हि तस्याः पणः। ततो राज्ञा पुष्टाः ३ सर्वेऽपि प्रत्येकं नृपाः परं न कोऽपि विवेद कन्याशुद्धिं, नापि तत्र गमने कस्यापि शक्तिः गताः सर्वेऽपि च स्वस्वस्थानं । ततो राज्ञा कुमारः पृष्टः, स
प्राह-राजन् ! श्रृणु, हेमाङ्गदविद्याधरेण कन्याऽपहृत्य योजनसहनंदूरवर्तिनि रत्नसानुगिरौ मुक्ताऽस्ति, तस्यारक्षार्थं मायाविद्या गृध्रपक्षिणीरूपा
स्थापिताऽस्ति, सा च विविधान् स्वरान् कुर्वाणाऽस्ति, यदा च सा विद्यापक्षिणी 'आगच्छ भो ! कुशलं युष्माक' मिति' वक्ति तदा सुन्दरा, यदा च ३६ र यूयं पलायध्वम् पलायध्वम्' इति वक्ति तदा ये तं शब्दं श्रृण्वन्ति ते नरा रुधिरं वमन्तो भूमौ पतन्ति म्रियन्तेऽपि च, तदा च शब्दवेधी यदि कोऽपि तस्या मुखं बाणैर्बिभर्ति तर्हि सा विद्यापक्षिणी पलाय्य याति, ततो गगनगामिनो गरुडानारुह्य तत्र गम्यते एवं कृत्वा कन्या प्रत्यानीयते.
इत्युक्त्वा झटिति कुमारेणस्वकलयागगनगामिनः काष्ठगरुडाः कृताः आरूढास्तेषु सुभटाः, कुमारोऽपि चारुह्य गतस्तत्र शैले, दृष्टा कन्या 3 पक्षिणीच। ज्ञाता सर्वजीवभाषाऽवगमाद्विरूपशब्दं कुर्वाणा, जाताश्चमनाक् तच्छब्दाकर्णनान्मूर्छिता इव सुभटाः ततः कुमारः शब्दवेधिकलया तस्या 20 3 मुखंबाणैःप्रपूर्य कन्यांचादायायातःसततं शब्दाऽऽकर्णनाऽभावात्क्षणाल्लब्धचैतन्यैः सुभटैः सह, जातश्च पाणिग्रहणमहःप्रौढोत्सवेन।प्रस्थितश्चान्यदा ३६