SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीसुपात्रदानविषयोपरि मेघनादराजमदनमअरीकथा ॥ १ ॥ सुपात्रदान मेघनादराज मदन० कथा ॥१॥ अयं चतुर्धाऽभिदधे बुधेश्वरैर्दानं च शीलं च तपोऽथ भावना। तत्राऽपि दानं खलु मुख्यमिष्यते, शेषत्रयस्यापि हि तत्कृता स्थितिः॥१॥ यो वर्द्धमानाध्यवसायशुद्धिः शुद्धंत्रिधाऽराध्यति दानमेवम् । सर्वाः समृद्धीर्लभते शिवं च, क्रमात् स भूमानिव मेघनादः ॥२॥ सुपात्रदाने रंगावती नगरी, लक्ष्मीपतिर्नृपः, कमला राज्ञी, तयोः पुत्रः षट्त्रिंशद्दण्डायुधश्रमवेदिता शब्दवेधी धनुर्वेदपारगः सर्वविद्याप्रवीणः । सर्वभाषानिपुणः सर्वविज्ञानविद् द्वासप्ततिकलाकुशलो मेघनादनामास्ति। स चान्यदा सवयोभिरुद्यानभुवं प्राप्तः पान्थं कमपि दृष्ट्वा प्राह, भोः! कुत आयातः क्व याताऽसि कामप्यपूर्वा वार्ता कथय। पान्थ उवाच-चम्पापुरीवास्तव्योऽहम् श्रीशत्रुञ्जययात्रायै याताऽस्मि चम्पायांमदनसुन्दरोराजाऽस्ति, तस्य प्रियङ्गमञ्जरी सर्वरूपलावण्यसंयुक्ता राज्ञी, पुत्री मदनमञ्जरी सा अद्भुतरूपलावण्या यौवनं प्राप्ता । यः कोऽप्यारम्भनिर्वाहेणान्यूनामष्टाङ्गनिमित्तविद्यां सर्वशिल्पकलां सर्वजीवभाषां ६ ज्ञानवियां धनुर्विद्यां च सम्यग्जानाति स मे पतिः इति तस्याः पणः।। इति गदित्वा गते पान्थे कुमारस्तदनुरक्तचित्तः स्वगृहं प्राप्तः । कस्याप्यकथयित्वा सत्त्ववानेकाक्येव रात्रौ चम्पां प्रति प्रतस्थे, देशाद्देशं पुरात्पुरं ग्रामाद्यामं ब्रजनन्यदा निर्मानुषे वने कापि सुप्तः, मध्यरात्रे तत्र राक्षसः समायातः, रे मनुष्य ! स्वाभीष्टदेवतां स्मर, अहं बुभुक्षाक्षामः खादयिष्यामि a
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy