________________
॥९॥
O भूप-स्तचरित्रैश्चमत्कृतः ॥१५४॥ शतं गजेन्द्रान् ग्रामांश्च, सहस्त्रमयुतं हयान् ॥ लक्षं पदातीनिष्कांश्च, तस्मै प्रयुतमार्पयत् ॥१५॥ पौरा
अपि पुरीदस्यु-हन्तारं तमपूजयन् ॥ गुणवान् राजमान्यश्व, यद्वा केन न पूज्यते ? ॥१५६॥ ततो भूमीभुजा दत्ते, प्रासादे सप्तभूमिके श्रीअगडदत्त ॥ तस्थौ नृपात्मजश्चित्ते, विभ्रन्मदनमञ्जरीम् ॥१५७॥ प्राप्तोऽपि भूपतेः पुत्री, लक्ष्मी कीर्तिश्च भूयसीम् ॥ ता नोदतारयचिता-दहो ? चरित्रं मोहोऽति दुस्त्यजः ॥१५८॥ अथान्यदा कुमारस्य, स्वसौधे तस्थुषोऽन्तिके ॥ आगात्काचिदशा दत्ता-ऽऽसना चोपविशत्पुरः ॥१५९|| ॥९॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ॥ अहं मदनमञ्जर्या, प्रेषितास्मि तवान्तिके ॥१६०॥ तयेत्युक्तं च हे कान्त !, मां
वियोगाग्नितापिताम् ॥ निजसङ्गमगोशीर्ष-द्रवैर्निर्वापय द्रुतम् ॥१६॥ अन्यच्च मत्तमातङ्ग-बन्धं तस्करमारणम् ॥ दुष्टस्त्रीदम्भवेदित्वं, नृपनिर्मितपूजनम् ॥१६२॥ लोके च विश्रुतां कीर्ति, तवाकर्ष्यातिविस्मिता ॥ त्वत्सङ्गमोत्सुका प्राणा-नपि कृच्छ्राद्दधाति सा ॥१६३॥ [ युग्मम् ] श्रुत्वेति दत्त्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् ॥ भद्रे ! तां ब्रूहि यनैव, विधेयोत्सुकता त्वया ॥१६॥ यथा मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने ! ॥ तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि बाधते ॥१६५॥ प्रस्तावमन्तरा किन्तु, न किञ्चित्क्रियते बुधैः ॥ ततः
समयमासाद्य, करिष्यामि समिहितम् ॥१६६।। इत्युक्त्वा सुलसासूनु-र्दुतिकां विससर्ज ताम् ।। सापि प्राममुदत्तस्य वाक्यैमर्दनमञ्जरीम् ॥१६॥ ins अन्येयुः करमारुढी, तत्पितुः सेवकावुभौ ॥ आयातौ तद्गृहे तो च, दृष्ट्वाऽमोदत् भूपभूः ॥१६८॥ तौ चालिङ्गय दृढं बाष्पजलाप्लावितलोचनः
। सोऽप्राक्षीत्कुशलं पित्रो-स्ततस्तावित्यवोचताम् ॥१६९॥ पित्रोः श्रेयोस्ति किन्तु त्व- द्विरहाकुलयोस्तयोः ॥ न चेत्त्वदृर्शनं भावि, तदा तूर्णं मरिष्यतः ॥१७०॥ सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ । मामाह्वातुमिहायातौ, तत्र तद्गन्तुमुत्सहे ॥१७१॥ स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया ॥ त्वदर्शनेन तृप्ता स्मः, पीयूषेणेव नो वयम् ॥ १७२ ॥ इत्युदित्वा नृपस्तस्मै, दत्त्वा चाभरणादिकम् ॥ समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् ॥१७॥ ततः पुर्या बहिः सेना, निवेश्य सकलां निजाम् ॥ एकेन स्यन्दनेनास्था-त्यूर्मध्ये १ दशसहस्रम् । २ दशलक्षम् । ३ उष्ट्रारुढी।
888888888