________________
॥८॥
ॐ द्वारे, तया चोद्घाटिते सति ॥ तामुद्बाह्याखिलं द्रव्य-माददीथा मदर्जितम् ॥१३४॥ पश्चात्तु ससुखं तत्र, तिष्ठेरन्यत्र वा ब्रजेः ॥ तेनेत्युक्तः
कुमारस्तं, वाक्यैराश्वासयच्छुभैः ॥१३५॥ तस्मिन्मृते तु तत्खङ्गं, लत्वा गत्वा बटान्तिके। शब्दिता तेन सम्भ्रांता, सा द्वारमुदघाटयत् । श्रीभगडदत्त ॥१३६॥ तां च दृष्ट्वा जगनैत्र-कैरवाकरकौमुदीम् ॥ इयं हि स्मरसर्वस्व-मिति दध्यौ नृपात्मजः ॥१३॥ सौम्य ! कस्त्वं कमर्थं वा
my sऽयासीरिति तया च सः ॥ पृष्टोऽवादीयथावृत्तं, ततः सान्तरदूयत ॥१३८॥ कृतावहित्था प्रोचे च, स्वामिन्नेहि गृहान्तरे ॥ वीरः
सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ॥१३९॥ अथ नाथस्त्वमेवास्य, भूर्धनस्य धनस्य च ॥ इत्युदीर्याथ धूर्ता सा, वासवेश्मोदघाटयत् ॥१४०॥ तल्पं च प्रगुणीकृत्य, साह विश्रम्यतामिह ॥ अहं तु त्वत्कृते कान्त !, गोशीर्षद्रवमानये ॥१४१॥ तयेत्युक्तः कुमारोपि, भेजे तल्पमनल्पधीः ॥ तस्यां बहिर्गतायां च, चेतसीति व्यचिन्तयत् ॥१४२॥ न्यायशास्त्रे हि विश्वासः, सर्वस्यापि निषिध्यते ॥ विशेषस्तु नारीणा-मरीणां च विचक्षणैः ॥१४३॥ स्त्रीणां द्विषां वा विश्वासो, विश्वासं जनयेज्जनम् ॥ इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ॥१४४॥ ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् ॥ ततो दूरे तिरोधाय, तस्थौ सुन्दरनन्दनः ॥१४५॥ बहिर्हन्तुमशक्यो यः, सोऽत्र सुप्तो हनिष्यते ।। इत्यध्वं तस्य तल्पस्य, न्यस्ता यन्त्रशिलाभवत् ॥१४६॥ तदा च सा शिला दस्यु-स्वम्रा यन्त्रप्रयोगतः ॥ पातिताऽचूर्णयत्तूर्णं, तां शय्यां शरकाण्डवत् ॥१४७॥ ततो मया हतः सुष्टु, भ्रातृघातीति वादिनीम् ॥ धृत्वा केशेषु तामेव-मवादीत्पार्थिवाङ्गजः ॥१४८॥ कपटैरपि मां हन्तु-माः पापे ! कः प्रभुर्भवेत् ? ॥ शाम्येत्किं वडवावह्नि-घनैरपि घनाघनैः ॥१४९।। इत्युक्त्वा तां सहादाय, भूगेहानिर्जगाम सः ॥ रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ॥१५०॥ अथ धैर्यनिधेस्तस्य, मुखाजमिव वीक्षितुम् ॥ पूर्वाचलशिरोदेश-मारुरोह नभोमणिः ॥१५॥ भूपाभ्यर्ण ततो गत्वा, निशावृत्तं निवेदयन् ॥ हतो दस्युः स्वसा तस्या-ऽऽनीतेयवमिति सोऽब्रवीत् ॥१५२॥ मेदिनीमन्दिरं तचा-दीदृशन्मेदिनीपतेः ॥ नृपोपि वित्तं तत्रस्थं, सर्व तत्स्वामिनामदात् ॥१५३॥ निजाङ्गजाश्च कमलसेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे १ परिणीय । २ आकारगोपनं कृत्वा । ३ शरीरस्य। ४ विगतश्वासं मरणमित्यर्थः । ५ पल्पले । ६ चौरभगिन्या। ७ मेधः । र भगहम।
2ol