________________
श्रीअगडदत्त
॥७॥
॥७॥
8888888888
परिकरं च सः। प्रोचे कुमारमेह्येहि यथा कुर्वे तवेहितम् ॥११३॥ [ युग्मम् ] इत्युदीर्य समं तेन, गत्वा पुर्या स तस्करः ।। कचिदिभ्यगृहेऽकार्षी
क्षात्रं श्रीवत्ससंस्थितम् ॥११४॥ तेन क्षात्रेण गेहान्तः, प्रविश्य निभृतक्रमम् ॥ पेटाः पाटचरो बह्वी, वित्तापूर्णाः समाकृषत् ॥११५॥ तद्रक्षायै कुमारं च, तत्र संस्थाप्य तस्करः ॥ प्रलोभ्य दुःस्थानानिन्ये, सुप्तान्देवकुलादिषु ॥११६॥ पेटाश्चोत्पाट्य तैः शेषं, कुमारेणात्मना तथा ॥ नगर्या निर्ययौ केनाऽप्यदृष्टः स पिशाचवत् ॥११७॥ तदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना ॥ यद्वा मम कुलीनस्य छलं कर्तुं न युज्यते ॥११८॥ किञ्च नित्यं कृते कस्य, मुष्णाति नगरीमयम् ॥ गेहे चास्य कियद्वित्त-मिति च ज्ञेयमस्ति मे ॥११९॥ तन्नायमधुना मार्य, इति ध्यायन्नृपाङ्गजः॥ तमन्वयासीद्दक्षो हि, नौत्सुक्यं कुरुते कचित् ॥१२०॥ सर्वेष्वथ पुरोयान-मागतेषु मलिम्लुचः । ऊचे m कुमारमद्यापि, बहुका विद्यते निशा ।।१२।। क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां ततः ॥ विनीयते यथा सर्वे-वींवधोबहनश्रमः ॥१२२॥ mआमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् ॥ मूलाइक्षिणतस्तस्थौ, परिमोषी तु वामतः ॥१२३॥ अन्योऽन्यं हन्तुमिच्छन्ती, विजेतुं
वादिनाविव ॥ अलीकनिद्रया धूर्त-प्रष्ठौ सुषुपतुश्च तौ ॥१२४॥ भारवाहास्तु ते श्रान्त-सुप्ता विश्रब्धचेतसः ॥ तीब्रां तन्द्रामविन्दन्त, तादृशां सुलभा हि सा ॥१२५॥ उत्थाय मस्तराहक्षः, कुमारस्तु शनैः शनैः ॥ कृपाणपाणिरन्यस्य, तरोर्मूलमशिश्रियत् ॥१२६॥ अप्रमत्ते श्रमणवत्, कुमारे तत्र संस्थिते ॥ निस्त्रिंशपाणि निस्त्रिंशः, समुत्तस्थौ स तस्करः ॥१२७॥ निहत्य भारिकांस्तांश्च, कुमारं यावदैवत ॥ आकृष्टासिः पुरोभूय, तावत्सोऽप्येवमब्रवीत् ॥१२८॥ परलुण्टाक ! रे पाप !, विश्वस्तजनघातक ! ॥ रिं कृतस्य पापस्य, फलमाप्नुहि साम्प्रतम् ॥१२९॥ इत्युक्त्वा गच्छतस्तस्य, पादौ खड्नेन सोऽच्छिनत् ॥ छिन्नमूलस्तरुरिवा-पत्तचौरस्ततो भुवि ॥१३०॥ प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्ग-जम् ।। अहं भुजङ्गमाह्वान-चौरोऽभूवं महाबलः ॥१३॥ इह श्मशाने भूम्यन्तः, सदनं मम विद्यते ॥ तत्रास्ति मे स्वसा, वीरमती सञ्ज्ञा कुमारिका ॥१३२॥ अभिज्ञानाय तदसिं, ममादाय महामते ! ॥ गत्वामुष्य वटस्याधः, शब्दयेस्तां सुलोचनाम् ॥१३३॥ मद्भूमिवेश्मनो १ तस्करः । २-४ चौरः । ३ भारोत्पाटनश्रमः । ५ खङ्गकरः । ६ गतदयः । अग्रेसर ।
888888888