________________
मृगसुन्दरी
कथा ॥१६॥
प्रोच्चैः, संपदं पूर्वभूभुजः । अज्ञातकुलजात्यादिस्वरूपत्वात्पुनस्तदा ॥१५५॥ भृभूतो देवपालस्य, श्रेष्ठिसामन्तमन्त्रिणः। आज्ञा न केऽपि मन्यन्ते, स्वजातिबलगर्विताः ॥१५६॥ युग्मम् ॥ ततोऽसौ चिन्तयामास, प्रज्ञाविक्रमसंपदा । लीलावेश्म पुरा मेऽस्ति, प्रभुः श्रेष्ठी पुराग्रणीः ॥१५॥ समाहूय महामात्यपदे स्थाप्यः स गौरवात् । तन्महिम्ना ममाप्यस्मिन्नावृत्ति विनी पुरे ॥१५८।। आहूतोऽपि ततः श्रेष्ठी, प्रतीहारेण भूभुजा । नायाति जातिप्रभुतामदोन्मत्ततया परम् ॥१५९॥ ततो दूनमना भूमान्, गत्वा सांतःपुरो बहिः । प्रणम्य श्रीजिनाधीशं, कुटीरस्थं व्यजिज्ञपत् १ ॥ ६ ॥ ||१६०॥ निराज्यभोज्यवद्राज्यं, प्राज्ञैश्वर्यप्रभोज्झितं । किमर्थ भवतादायि प्रसन्नेन मम प्रभो ! ॥१६॥ आविर्भूय तदावादि, राज्ञो देवतया छह तया। मा खेदं कुरु वत्स ! त्वं, शृणु बाता मदीरिताम् ॥१६२॥ मृन्मयं गजमारुह्य, राजकेलिस्त्वया पुरः । परितोऽस्या विधातव्या, विस्मयं 8 कुर्वतांगिनाम् ॥१६३॥ दिव्यानुभावतो हस्ती, सजीवोऽसौ भविष्यति । तवाज्ञा पौरलोकेषु, भाविन्यस्खलिता ततः ॥१६४॥ परं जैनेंद्रपूजायां, सावधानो भृशं भव । यदसौ कामधुक् सर्व, प्रसूतेऽभीप्सितं फलम् ॥१६५॥ इत्याकर्ण्य गिरं देव्या, मुदितो मेदिनीपतिः । तद् बिम्बं भक्तितोभ्यर्च्य, गृहं प्राप्य च विस्मितः॥१६६।। कुम्भकारैर्विनिर्माप्य, गजेन्द्र तादृशं जवात् । ऐरावतमितोत्तुङ्गं, हैमालङ्कृतिमण्डितम् ॥१६७।। आरुरोह स्वयं यावत्तावहिव्यानुभावतः । स गजो गर्जितं चक्रे, सजीवीभ्य तत्क्षणात् ॥१६८॥ त्रिभिर्विशेषकम् ॥ तमारूढस्ततो राजा, देवराज इव ब्रजन्। आजगाम युगाधीशं नंतुं भक्तितरंगितः ॥१६९॥ तं नमस्कृत्य पञ्चाङ्गैः प्रणम्य पृथिवीपतिः । लीलया कलयन् केलिं, करोति स्म सविस्मयम् ॥१७०॥ तं तादृशं गजारूढं, प्ररूढामूंढविक्रमं । सामन्तश्रेष्ठिमुख्यास्ते, नमन्ति स्म सविस्मयाः ॥१७॥ देवपालस्ततो भूमीपालस्तं श्रेष्ठिपुङ्गवम् । अस्थापयन् महामात्यपदे पुण्यनयास्पदे ॥१७२।। ततः सुकृतसम्भार, सम्भावितमनाकुलम् । मन्त्रिन्यस्तधराभारं, स राज्यं बुभुजे चिरम् ।।१७३॥ स श्रेष्ठी जिनदत्तोऽपि, प्राप्य मन्त्रिपदं वरम् । विदधे पौरलोकानामुपकारपरम्पराम् ॥१७॥ अन्यदा तत्पुरोद्याने, दमसारमहामुनिः । सर्ववित्समवासार्षीद, गीर्वाणश्रेणिसेवितः ॥१७५॥ आयासीन्नृपतिर्नन्तुं, तं तदा मुनिपुङ्गवम् । सामन्तामात्यसंयुक्तः, समं दयितया तया