________________
॥११॥
1990
. यतः - आयुर्वर्षशतं नृणां परिमितं रात्रौ तदद्ध गतं, तस्यार्धस्य कदाचिदर्धमधिकं बालत्ववृद्धत्वयोः शेषं व्याधिजरावियोगविवशैः सेवादिभिर्नीयते, मानुष्ये चपले चलाचलतमे सौख्यं कुतः प्राणिनाम् ? ॥१३४॥ एकजन्मसुखस्यार्थे, कल्पान्तं नरकायुषः । अचिराय शरीराय,
किमर्थ पापमाचरेत् ? ॥१३५।। इत्याकर्ण्य गुरोर्वाचं, प्रबुद्धः स्माह भूपतिः। कियदायुर्विभो ! मेऽस्ति, स जगौ दिवसत्रयम् ॥१३६॥ श्रुत्वैतद्विदधे पर मृगसुन्दरी भूमान्, पश्चात्तापं निजे हृदि। अहो मया महैश्वर्यप्रमादविवशात्मना ॥१३७॥ सुकृतं न कृतं किञ्चिद्भवांतरसुखावहं । वृथैव हारितं जन्म, कथा
पापकर्मैककारिणा ॥१३८॥ युग्मम् ॥ भुवनं जिनस्य न कृतं न च बिम्बं नैव पूजिता गुरवः । दुस्तपतपो न तप्तं जन्म मुधा हारितं मूढैः ॥१३९।। कुर्वननुशयं भूमानेवं सर्वागिसाक्षिकं । आश्वासितो मुनीन्द्रेण, सुधामधुरया गिरा ॥१४०॥ वर्षकोटितपोभिर्यत्, पुण्यमन्यैरुपाय॑ते । अंतर्मुहूर्त्तमात्रेण, 88 तदन्येन महात्मना ॥१४१।। तथापि साम्प्रतं राजन् ! शुद्धसम्यक्त्वपूर्वकं । भजस्व देशतो धर्म, द्वादशब्रतभूषितम् ॥१४२।। सम्यग्दृष्टेरनुष्ठानं, यतः स्तोकमपि धुव्र । निर्जरायै भवेद्राजन् ! भूयः क्लिष्टाष्टकर्मणाम् ॥१४३॥ ततो गृहीत्वा साकारं, धर्म सद्दर्शनोज्ज्वलं । राजा केवलिनं भक्त्या, प्रणम्यागानिजं गृहं ॥१४४॥ अथ दध्यौ धराधीशश्चंगसंवेगपूरितः। निराधारं धरैश्वर्य मोक्तुं युक्तं कथं मम ? ॥१४५॥ आयुस्तु सुतरां स्तोकं, राज्यभारधुरंधरः। कोऽप्यस्ति नात्मजो गेहे, ततोऽहं करवाणि किं ? ॥१४६॥ इति चिंतातुरे राज्ञि, राज्याधिष्ठायिकावदत् । पंचाधिवास्य दिव्यानि, मुच्यतां परितः पुरः॥१४७॥ अमीभिरभिषिक्तस्य, स्वकन्योद्वाहपूर्वकं । राज्यं पुसंस्त्वया देयं, ततो वृद्धिर्भविष्यति ॥१४८॥ ततस्तथाकृते राज्ञा, सचिवादिविचारतः । देवपालोऽभवद्राजा, जिनपूजानुभावतः ॥१४९॥ सुतां मनोरमां तस्मै, प्रदाय समहोत्सवम् । ततः केवलिनः पार्थे
तपस्यामाददे नृपः ॥१५०॥ चारित्रं निरतीचारमाराध्य द्विदिनं सुधीः । देवोऽभूत्प्रथमे कल्पे, राजा सिंहरथाभिधः ॥१५॥ दिनमात्रं वरं सम्यक्, as तपस्या समतान्विता । न पुनर्ममतायुक्ता वर्षकोटिं निषेविता ॥१५२॥ एकाहमपि निर्मोहं, प्रव्रज्यापालकः शमी । न चेन्मोक्षमवाप्नोति तथापि २ स्वर्गभाग्भवेत् ॥१५३॥ यतः-प्रणिहंति क्षणार्द्धन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः ॥१५॥ अपि प्राप्तवतः