________________
198॥
निरन्तरमहावृष्ट्या, सप्तरात्रं पयोमुचः ॥११२॥ तदर्चनकृते गन्तुं, तेनाऽशक्नुवता बहिः । अभिग्रहवता सप्तोपवासाः खलु निर्मिताः ॥११३॥ युग्मम् ।। सप्ताहं सततं जैनपूजाध्यानवशाशयः । क्षपणै:-क्षपयामास, क्लिष्टकर्मावलीमसौ ॥११४॥ निवृत्तायां ततो वृष्टौ, कृशीभूते पयःप्लवे।
अष्टमेऽह्नि जिनेद्रस्य, पूजार्थं स ययौ प्रगे ॥११५॥ तां मूर्ति भक्तितोऽभ्यर्च्य, देवपालो जिनेशितुः। भक्तिमुग्धो विशुद्धात्मा, कृतांजलिर्व्यजिज्ञपत् मृगसुन्दरा ॥११६॥ क्षमस्व त्वं क्षमाधार ! कृपागार ! जगत्प्रभो ! । सप्ताहं यदपूज्योऽभूर्मन्दभाग्यतया मम ॥११७॥ कथा
ह त्वद्दर्शनं विना स्वामिन् ! ममाभूत्सप्तवासरी । अकृतार्था यथारण्यभूमिरुहफलावलिः ॥११८॥ श्लाध्योऽयं दिवसो नेतः ! शस्योऽयं समयस्तथा। 1980
इयत्त्वं नेत्रातिथिर्जातो ममाद्य जगदीश्वर! ॥११९॥ तद्भाग्यमपि भूयोभिर्भाग्यरेवोपलभ्यते । येन त्वं दृश्यसे देव ! सेवधिः शिवशर्मणः ॥१२॥ वह इत्यर्हद्भक्तिविज्ञप्तिरसावेशवशंवदं । तमवग् देवता काचित्, प्रीता प्रत्यक्षतां गता ॥१२॥ बिंबाधिष्ठायिका देवी, त्वदीयाद्भुतभक्तितः। संतुष्टाऽहं 8
महाभाग ! मनोऽभीष्टं वरं वृणु ॥१२२॥ तेनापि तत्पुरैश्वर्यसंपदो मुग्धचेतसा । प्रार्थिता यज्जनः प्रायः ऐहिकं फलमीहते ॥१२३॥ दिनैः SE कतिपयैर्वत्स! राज्यं तव भविष्यति । भावपूजा जिनेंद्रस्य, भक्तकामगवी यतः ॥१२४॥ इत्युदीर्य तिरोजज्ञे, तत्क्षणाद्देवता पुनः । आससाद
मुदं देवपालोऽपि जगदद्भुताम् ॥१२५।। तत्पश्चागप्रणामेन, रजस्तिलकितां निजां । भालस्थलीमसौ तन्वन्, भोजनायागमद् गृहं ॥१२६॥ ततोऽसौ परमानेन, श्रेष्ठिनिर्मितगौरवम् । पारणं निर्ममे पात्रदानं निर्माय निर्निभम् ॥१२७॥ तस्मिन्नवसरे तत्र, दमसारमहामुनेः । उत्पन्नं केवलज्ञानं, शुक्लध्यानानुभावतः ॥१२८। आसन्नत्रिदशैश्चक्रे, ततस्तन्महिमा महान् । तत्कृतं कनकांभोजमलंचक्रे स सर्ववित् ॥१२९॥ नृपः सिंहरथः सांतःपुरपौरपरिवृतः । केवलज्ञानिनं नंतुं, तत्रागान्मुदितस्तदा ॥१३०॥ उपाविशद्विशामीशस्तस्याग्रे नतिपूर्वकम् । विदधे च तदा धर्मदेशनां के वली मुनिः ॥१३॥ शिवपदसुखाभिलाषो निर्वेदो भवसुखेषु धीमैत्र्यां । जगदुपकारे चित्तं लक्षणमासन्नमोक्षस्य ॥१३२॥ येन प्रभुस्वजनवैभवदेहगेहे, चिंतातुरेण सुकृतं न कृतं कदाचित् । वैवाहिकव्यतिकराकुलितस्य तस्य, नो पाणिपीडनविधिः स्मृतिमाजगाम ॥१३३॥