________________
अहो कान्तान् दृष्ट्वा र
समाख्याय यात्सर्ग का
॥६॥
ताः पीयूषचा
सर्वे प्रापूर्णिकाः पुनः । चलनोपक्रमं कर्तुं समाजग्मुस्तदन्तिकम् ॥१९५॥ विसंस्थुलशरीरान्तान् दृष्ट्वा मृतकसन्निभान् । हाहाकार्यमकार्य किं,
संजातं सुहृदां निशि ॥११६॥ इत्यादि वचनं श्रुत्वा, दध्यौ सा मृगसुन्दरी । अहो कलङ्कश्चास्माकमागतानामभूच्चिरम् ॥११७॥ जिनो देवो हरु
SMS गुरुः साधु नो धर्मो भवत्वलं । शरणं मेऽत्र कृत्वेति कायोत्सर्ग चकार सा ॥११८॥ शुद्धशीलप्रभावेण, तुष्टा शासनदेव्यभूत् । प्रत्यक्षीभूय हा मृगसुन्दरी तामूचे, किं करोमि तव प्रियम् ? ॥११९।। समाख्याय निजं धर्म, देवीमुचे कृताञ्जलिः । एषां जीवितदानेन, प्रसादं कुरु साम्प्रतम् ॥१२०॥
कथा देव्या दिव्यानुभावेन, सिक्ताः पीयूषवारिणा । सज्जागास्ते समुत्तस्थुः सुखसुप्तनरा यथा ॥१२१॥ देवी स्माह महासत्याः प्रभावादहमागताः। ॥६ ॥
एतेषां हि मया जहे, सर्व कोष्ठगतं विषम् ॥१२२॥ इत्युक्त्वाऽगानिजं स्थानं, तैः सर्वैः प्राप्तविस्मयैः । इष्टं तत्र कटाहानपक्वसर्पशरीरकम् ॥१२३॥ वधूः प्रोवाच ताताऽहं, हेतुना तेन सर्वदा । चन्द्रोदयं हि बध्नामि, न कुर्वे निशिभोजनम् ॥१२४॥ तत्कुटुम्बं गुणक्रीतं, सदाजीवितमानसं । तां प्रणम्यानुजग्राह, नियमं निशि भोजने ॥१२५॥ श्वशुरेण पुनः प्रोक्तं, क्षन्तव्यं कुलदीपिके ! । इयत्कालावधियावदस्माकं १ दुष्टचेष्टितं ॥१२६॥ सत्कृत्य कुलदेवीव, सम्मानीता निजे गृहे । धनेश्वरेण भापि, क्षामिता पुनरेव सा ॥१२७।। सर्वे ते श्रावका जातास्तस्या ७ वचनयोगतः । साऽपि गुरुं नमस्कृत्य, विदधे धर्ममादरात् ॥१२८॥ गुरुणोक्तं श्रुणु वत्से, ! प्रमादेन तनूमतां । निरर्थं जायते पापं, यदुक्तं शास्त्रसम्मतैः ॥१२९॥ पञ्च व्याधाः प्रकुर्वन्ति, याद्दशं पातकं दिने । चन्द्रोदये त्वनाबद्धे, चुल्हकोपरि तादृशं ॥१३०॥ नवस्थानेषु श्राद्धानां,
चन्द्रोदया भवन्त्वमी । देवार्चने जलस्थाने, भोजने शयने तथा ॥१३१॥ यन्त्रोदूखलयोः स्थाने, स्थाने संझेरणास्पदे । एतेषु गृहिणा धार्या, पर 8 नवमञ्चुल्हकोपरि ॥१३२॥ एवं पुण्यं प्रकुर्वन्त्यास्तस्याः कालः कियानगात् । धनेश्वरस्तया सार्द्ध, मुंजे वैषयिकं सुखम् ॥१३३॥ धन्यंमन्यो र
धनस्यार्थी, व्यापारानकरोच्च सः । सुखेनागमयत्कालं, किमप्येकमुहुर्त्तवत् ॥१३४॥ अनालोचितदुःकर्मा, क्रमेणासन्नमृत्युकः । आर्तध्यानेन स मृत्वा, प्रथमं नरकं ययौ ॥१३५॥ उद्धृत्य नरकात्सोऽपि म्लेच्छेषु समजायत । उत्पद्य नरकेष्वेवं, सप्तवारान्पुनः पुनः ॥१३६॥ अकामनिर्जरायोगात् बहुकर्माप्यघातयत् । पश्चात्पुण्यानुभावेन, त्वमभूःराजनन्दन ! ॥१३७॥ प्राग्दुःकाशयोगेन, रोगोऽयं सप्तवार्षिकः ।