________________
॥६
॥
बद्धो द्वितीयोऽथ, सोऽपि प्रज्वालितः पुनः ॥९॥ एवं रीत्याऽनयाऽनेन, बद्धा दग्धाश्च सप्त ते । अबन्धि निबिडं कर्म, धर्मभ्रंशविधायिना ॥९॥ श्वशुरेण पुनः प्रोक्तं, किं वधु ! क्रियते त्वया ? बध्नासि बालवद्वाले, ! चन्द्रोदयं मुहुर्मुहुः ? ॥९॥ न करोषि निशाभोज्यमस्माकं वचनैरपि।
तु बध्नामि तात ! जन्तूनां, रक्षार्थ वसनं तदा ॥९४॥ संपातिमग्निसंघातान करोमि निशाशनं । निशाभोज्ये महादोषो, यदुक्तो भवदागमे ॥९॥ मृगसुन्दरी यो रात्रौ सर्वदाहारं, वर्जयंति सुमेधसः । तेषां पक्षोपवासस्य, फलं मासेन जायते ॥९६॥ नीरं रुधिरतां याति, धान्यं मांससमं निशि । मार्कण्डेन हद कथा
समाख्यातं, कः श्रयेत्तादृशं सुधीः ? ॥९७॥ श्रुत्वा तद्वचनं सर्वे, रोषाकुलितमानसाः । तामिति तर्जेयामासुरसभ्यैर्वचनैस्तदा ॥९८॥ निर्लज्जे ! 88 EE निर्गुणे ! दुष्टे, ! भर्तुः कुलकलादिनि ! । गन्तव्यं हि पितुर्गेहे, कलहैकधिया त्वया ॥९९॥ वधू स्माह वरं तात, ! यथानीता भवद् गृहे। SNE सर्वकुटुम्बसंयुक्ता, तथा मोच्या पितुर्गृहे ॥१००। तेनापि वचसाऽऽहूता, स्वान्तः स्वजनसंयुतः । चचाल श्वशुरः सोऽपि, तामादाय कुलप्रियं
॥१०॥ ग्रामैकस्मिन्ततः सन्ध्यासमये स्वजनोऽमिलत् । तेनापि परया भक्त्या, भोजनार्थ निमन्त्रितः ॥१०२॥ निशायां पच्यमाने हि, लपनश्रीकटाहके । पपात पचने तस्य, सर्पो धूम्रभराकुलः ॥१०३।। धूम्रातिव्यग्रचित्तत्वान ज्ञातः पाचकैस्तदा । अन्नं क्रमेण सञ्जातं, आहूता भोजनाय ते ॥१०॥ धनेश्वरवधूटीयं, भोजनं चेत्करिष्यति । तदा वयं करिष्यामः प्रोचिरे श्वशुरादयः ॥१०५॥ स्वजनोऽपि वधू प्रोचे, भोजनं ७ कुरु मानिनि । अस्माकमनुमन्यस्व, मान्तरायीभवाधुना ॥१०६।। वाचा मधुरया प्रोक्तं, तया वात्सल्यकारया । अनेकदोषदुष्टत्वान्नकरोमि 3 निशाशनम् ॥१०७॥ पुनरुक्तं यदास्माकं, करोषि परिवेषणं । त्वं हि स्वकीयहस्तेन, वयं भोक्ष्यामहे तदा ॥१०८।। मुक्त्वा पूर्वा कदाप्यर्क, उदयत्यस्तकाचलं । तथाप्यहं निशाभोज्यं, न कुर्वे कारयामि नो ॥१०९॥ अध्वश्रान्तैः क्षुधाक्रान्तैरेभिरोषसमाकुलैः । भोजनं न कृतं किन्तु, जनापवादलज्जया ॥११०॥ ततः पश्चाद् गृहस्वामी, सञ्जाते त्वर्धरात्रिके । स्वकुटुम्बसमायुक्तो, भोजनं हि चकार सः ॥११॥ दत्त्वा र प्राघूर्णकादीनां, वरपल्ल्यंकतल्पकान् । ते सर्वेऽपि यथास्थानं, सुषुवुः स्वापहेतवे ॥११२॥ अथ गृहकुटुम्बस्य, जाते निद्राभरे तदा । प्रससृषुः विषवेगास्तरंगा इव नीरघेः ॥११३॥ विषघर्मितसर्वाङ्ग, विमुक्तकर्मचेष्टकं । मूर्च्छया छन्नजीवं तद्, बभूव मृतसोदरम् ॥११४॥ प्रभातसमये जाते, 88