________________
मा श्रापकीय नोपयेमे मृगमनार्जने ॥६९ मताच साधूनां, लोक
गुरुसन्निधौ ॥६७।। चन्दनं गुरुपादानां, शिक्षयामास मायया। ददौ दानं च साधूनां, लोकप्रत्ययकारकं ॥६८॥ सोऽन्यदा जिनदत्तं तं, ययाचे मृगसुन्दरीं । सोऽपि तं श्रावकं मत्वा, कुशलं च धनार्जने ॥६९॥ सुतायाश्वानुरूपं तं, रूपेण वयसा पुनः । इति ज्ञात्वा ददौ तस्मै, स्वसुतां
सरलाशयः ॥७०॥ समागतकुटुम्बेनोपयेमे मृगसुन्दरी । धनेश्वरेण तेनापि, महोत्सवपुरस्सरम् ॥७॥ के केऽपिनात्र वञ्च्यन्ते, सुधियो मृगसुन्दरी धर्मछद्मना। बेश्यया श्रावकीभूय, बुद्धिमानभयो यथा ॥७२॥ जिनदत्तं समापृच्छ्य, स्थित्वा कानपि वासरान् । देवदत्तादयो जग्मुरादाय हर कथा
मृगसुन्दरीं ॥७३॥ क्रमेण स्वपुरं प्रापुरखण्डितप्रयाणकैः । कृतोत्सवप्रवेशास्ते, विविशुः स्वगृहं प्रति ॥७॥ धनेन्वरोऽपि स्वां भेजे, प्रकृति ॥४॥
स्वकुलोचितां । स्नापितोऽपि जलेऽगाधे, जलोत्तीर्णगजो यथा ॥७५॥ जिनधर्मरतां नक्तमभुञ्जानां महासतीं । उपहसन्ति तां सर्वे, ग्रामस्था 58 5 इव नागरीम् ॥७६॥ देयं दानं न साधूनां, न पूज्या हि जिनेश्वराः । रात्रौ च भोजनं कार्य, तां भर्तेति शशास सः ॥७७॥ तयापि
मनसाऽचिन्ति, किमत्र खलु युज्यते ? न पालितं व्रतं पूर्व, तेनायं सङ्गमोऽजनि ॥७८॥ अथवा श्वसुरादीनां, चित्तमा मनाक् तदा । नाभूयथा हि कारुण्यं, कुतश्चण्डालपाटके ? ॥७९।। अधुनापि मया सम्यक्, पालनीयं निजं व्रतं । इति मत्वा तया चित्ते, विहितं क्षपणत्रयम् ॥८०॥ चतुर्थे दिवसे सापि, प्रच्छन्नं गुरुसन्निधौ । जगाम जनितानन्दा, पप्रच्छ रचिताजालिः ॥८॥ इयत्कालं मया सम्यक्, पालितं नियमत्रयं । साम्प्रतं शैवसंसान जाने किं भविष्यति ? ॥८२॥ किमप्युपायमत्रार्थे, सुकरं कथय प्रभो ! । लाभालाभं हि जानन्ति, गुरवः शास्त्रपारगाः ॥८॥ गुणागुणं समालोक्य, गुरुणा शास्त्रसम्मतं । इति तस्याः पुरः प्रोक्तं, शृणु भद्रेऽनघं वचः ॥८॥ जीवदयामहाहेतुं, केतुं धर्मस्य मंदिरे । चन्द्रोदयं हि बध्नीयाद्यः सदा चुल्हकोपरि ॥८५।। दानेन पञ्चसाधूनां, पञ्चतीर्थे नमस्कृते । याद्दशं जायते पुण्यं, तादृशं तस्य जायते ॥८६॥ एतदेव त्वया कार्य, न कार्य निशिभोजनं । स्मरणीया निजे चित्ते, श्रीजिना गुरवः पुनः ॥८७॥ श्रुत्वा गुरूपदेशं तं, समागता निजौकसि।
चुल्हकोपरि सद्यस्कं, चन्द्रोदयं बबन्ध सा ॥८८॥ विधाय पारणं सापि, चक्रे कार्य वधूचितं । दृष्ट्वा श्वश्रुननन्दाभिः, बद्धं चन्द्रोदयं तथा ॥८॥ Rs जीवरक्षा विमुढाभिस्ताभिः प्रोक्तमितीjया। विहितं कार्मणं वध्वाऽनया धनेश्वरांय तत् ॥९०॥ तेनापि जातरोषेण, दग्धश्चन्द्रोदयस्तथा। तया