________________
नर्मदासुन्दरी
कथा 118 11
कियत्कालानन्तरं स श्रेष्ठी ततो बहुधनमुपार्ज्य निजगृहे समायातः । कथितं च तेन निजपरिवाराय राक्षसभक्षणादिनिजभार्यास्वरूपं, शुभ्रं प्राप्तेन परिवारेण च तस्याः प्रेतकार्यादि कृतं महेश्वरश्वान्यां भार्यां परिणीतवान् ।
_ अथ तत्र सुप्तोत्थिता नर्मदासुन्दरी तत्र निजभर्त्तारमदृष्ट्वा हृदयास्फोटं पूत्कारं कुर्वन्ती विविधविलापैर्वनवासिजन्तूनपि रोदयन्ती हा नाथ ! XXX मामिहैकाकिनीं ॐ मुक्त्वा त्वं कथमव्रज इति पुनः पुनः प्रजल्पन्ती नयनाश्रुजलैर्वनवृक्षसञ्चयान् सिञ्चयन्ती वदनतो दीर्घोष्णनिःश्वासान्निष्कास- ॥४॥ यन्तीतस्ततोsटन्ती तटिनीपतेस्तटमागता परं तत्रापि प्रवहणमनालोक्य हृदयोद्भूतातीव दुःखतो मूच्छ प्राप्ताः सुरभिशीतलानिलतः पुनः सचेतनीभूय नानाविलापमुखरीकृतकाननैषा चिन्तयामासाथानन्यशरणाया ममात्मघात एव शरणं, पुनस्तया चिन्तितं संसारसागरतरणैकयानपात्रनिभ-जिनागमे प्रतिषिद्ध बालमरणकरणतो न ममात्मनः कापि श्रेयोऽर्थप्राप्तिः, किञ्च न जानेऽहमत्र भर्त्रा कथमेकाकिनी त्यक्ता, नूनं मया तदा या जैनमुनेराशातना कृता तन्मे दुष्कर्म उदयमागतमेव इति विचार्य सा मृत्तिकात एकां श्रीजिनप्रतिमां कृत्वा सर्वदा तत्र पूजयति, वनफलादि च भक्षयति, इत्थं सा नमस्कारध्यानपरायणा स्वकर्मनिन्दनतत्परा धर्मप्रभावतो वनवासिक्रूरप्राणिभिरनुपद्रुता निजसमयं गमयांचकार । अथैकदा तस्याः वीरदासाभिधानो बब्बरकुलं प्रति गच्छन् जलेन्धनाद्यर्थै प्रवहणस्थस्तत्र समागतः तेन रत्नाकरोपकण्ठे भ्रमन्ती नर्मदासुन्दरी दृष्टोपलक्षिता च । विस्मयमापन्नेन तेन पृष्टं हे पुत्रि ! त्वमत्रैकाकिनी कथं समागतासि, इत्युक्ता सा नयनाभ्यामश्रूणि मुञ्चन्ती सकलमपि निजवृत्तान्तमादितः कथयामास । अथ वीरदासस्तामाश्वास्य निजप्रवहणमध्ये समारोप्याग्रे चलितः । क्रमेण बब्बरकुले समागत्य राज्ञश्च प्राभृतं दत्त्वा ससुखेन तत्र व्यापारे समुद्यतोऽभवत् । नर्मदासुन्दर्यपि तत्र सुखेन तिष्ठति, अथ तस्यां नगर्यामेका हरिण्याभिधाना रूपजित - ' निर्जराङ्गनावाराङ्गना वसति । तस्यै सन्तुष्टेन राज्ञैवं वरो दत्तोऽस्ति, ययः कोऽपि नूतनव्यापारी अत्र समागच्छेत् स तस्यै वारांगनायै ॐ दीनारसहस्त्रमर्पयेत् । अथ वीरदासं तत्रायातं श्रुत्वा तस्या वारांगनाया दासी तद्दीनारसहस्त्रं गृहीतुं तत्पार्श्वे समायाता । तत्र ** रुपलवणिमादिभिर्निखिलनगरनारीगर्वतिरस्कारिणीं नर्मदासुन्दरीं विलोक्य विस्मयमापन्ना, गृहे समागत्य सा हरिणीं प्रति कथयामास, हे
XXXXXXXXXXXXXXXXXXXXX