________________
॥२॥
E रुद्रदत्तः श्वसुरमापृच्छ्य ऋषिदत्तामादाय चन्द्रपुरनगरे समायातः, त्यक्तश्च तेन तत्र जिनधर्मः, क्रमेण ऋषिदत्ताऽपि भर्तृस्नेहतः संसर्गदोषेण X जिनधर्मे शिथिला जाता. क्रमेणैषा गर्भिणी जाता, सम्पूर्णसमये तस्या महेश्वरनामा पुत्रो जातः, क्रमेण सकलविद्याभ्यासं कृत्वा स यौवनवयः
सम्प्राप्तः, इतश्च ऋषिदत्ताया वृद्धभ्राता सहदेवाभिध आसीत् । तस्य सुन्दर्या ख्या भार्या बभूव, तस्या कदा नर्मदायां स्नानकरणार्थे दोहदः । नर्मदा- समुत्पन्नः, ततः सहदेवसार्थवाहः क्रयाणकानि समादाय सुन्दरीसहितो नर्मदोपकण्ठे समागत्य तस्या दोहदं पूरयामास । तत्र च व्यापारे बहुलाभं सुन्दरी org विज्ञाय तेन नर्मदापुरीत्यभिधानं नगरं संस्थाप्यकं जैनमन्दिरमपि निर्मापितं, क्रमेण सम्पूर्णसमये तयैका पुत्री जनिता, श्रेष्ठिना पुत्रवत्तस्या र कथा
He जन्ममहोत्सवं कृत्वा नर्मदासुन्दरी ति नाम दत्तं, अथ क्रमेण शशिलेखेव वर्द्धमाना सकलकलाकलापबन्धुरा सा यौवनं प्राप्ता ॥ // રા
अथैकदा ऋषिदत्तया तस्या अवर्णनीयरुपलवणिमादिगुणान् श्रुत्वा चिन्तितं चेदेषा मम पुत्रस्य महेश्वरस्य पाणिग्रहणं कुर्यात् तदा मे Re मनोऽभिलाषः सफलीभवेत्, परं मां जिनधर्मपराङ्मुखीं विज्ञाय मम भ्राता तां निजतनयां मम पुत्राय नैव दास्यतीति चिन्तयन्ती सा विलापं 7
कत्तुं लग्ना, तावद्रुद्रदत्तेन तत्कारणं पृष्ठा सा निजहृदयगताभिलाषं कथयामास । तत् श्रुत्वा सोऽपि चिन्ताध्वान्तचित्तः समभवत्, । अथ पार्श्वस्थेन महेश्वरेण तवृत्तान्तं कर्णगोचरीकृत्योक्तं, ते पितरौ, युवां विषादं मा कुरुतं, अहमेव तत्र गत्वा केनाप्युपायेन तां परिणीय समागमिष्यामीत्युक्त्वा सशीघ्रमेव तत्रागत्य मातु लाय मिलितः, ततः क्रमेण तेन विनयादिगुणगणैर्मा तुलादीनां देवगुरुवन्दनावश्यकदिक्रियाभिर्जिनधर्माराधकः समभूत्, अथ तं तथाविधं जिनधर्मपरायणं विज्ञाय मातुलेन तस्मै नर्मदासुन्दरी परिणायिता । कियत्कालं तत्र स्थित्वा स श्वसुराज्ञया तामादाय निजनगरे समायातः, वधूसहितं निजतनयं समागतं दृष्ट्वा पितरावत्यन्तं प्रमुदं प्राप्तौ, क्रमेण नर्मदासुन्दर्या श्वसुरादीन् प्रतिबोध्य मिथ्यात्वघोरसागरे निमज्जतः समुद्धृत्य सर्वेपि ते जिनधर्मेकयानपात्रे समारोपिताः । अथैकदा सा नर्मदासुन्दरी
गवाक्षस्था निजवदनतो दिवाऽपि नगरजनानां चन्द्रोदयभ्रमं कारयन्ती ताम्बूलं चर्वन्ती निष्ठीवनं चकार । अकस्माच्च तनिष्ठीवनं पथि गच्छतो * जैनमुनेरेकस्य मस्तकोपरि पतितं, मुनिनोक्तं-यद्येवं त्वं मुनीनामाशातनां करोषि, तेन तव भर्तुर्वियोगो भविष्यतीति श्रुत्वा भयसहितं विषादं ।