________________
॥9॥
॥ॐ नमः॥ ॥ अथ श्री शीलकुलके नर्मदासुन्दरी कथा । नर्मदासुन्दरी कथा
नंदउ नमयसुंदरी सा सुचिरं जीए पालिअंसील। ॥१॥
गीहत्थणं पि काउ सिहिया य विडंबणा विविहा ॥१॥ ___व्याख्या सा नर्मदासुन्दरी चिरकालं यावन्नन्दतु यया कुत्रिमं ग्रैथिल्यं कृत्वा विविधा नानाप्रकारा विडम्बना:-कदर्थनाः सहिताः, निर्मलं शीलं च पालितं, ॥८॥ तस्याः कथा चेत्थम् - वर्द्धमानाभिधनगरे सम्प्रतिनामा राजा, ऋषभसेनाभिधश्च सार्थवाहः परिवसति तस्य । भार्या वीरमती, तस्याः सहदेव - वीरदासाख्यौ द्वौ पुत्रौ, ऋषिदत्ताभिधाना च पुत्री, क्रमेण सा युवजनस्पृहणीययौवनावस्थां प्राप्ता,
बहुर्भिर्व्यापारिधनिकपुत्रैर्मार्गिताऽपि मिथ्यात्वतिमिरान्धभूतेभ्यस्तेभ्यः सा तत्पितृभ्यां न ददे । SR अन्यदा चन्द्रपुरनगराद् रुद्रदत्ताभिधः कश्चित् श्रेष्ठी तन्नगरे समाययौ. अन्यदा रुद्रदत्तेन सत्यमपि प्रमाणविदां दययेव व्योमाम्बुजोदाहरणं 30निजवदनाम्भोजेन सत्यीकुर्वन्ती निजप्रासादगवाक्षस्था सा ऋषिदत्ता दृष्टा, तां दृष्ट्वा मन्यथशरविद्धो रुद्रदत्तो गतचैतन्य इव बभूव । ततस्तेन
स्वकीयमित्राय कुबेरदत्ताय स्वकीयाभिप्रायं निवेद्य पृष्टं भो मित्र ! रुपनिर्जितनिर्जराङ्गनेयं कस्य पुत्री ? तेनोक्तं - मित्र ! इयं जिनधर्मैकतत्परस्य ऋषभसेनसार्थवाहस्याङ्गजाऽस्ति, किञ्च जैनं विना सोऽन्यस्मै कस्मैचिदपि निजांगजां नैव दास्यति, तत् श्रुत्वा स कपटश्रावकीभूय नित्यं जिनपूजा-साधुवन्दना-ऽऽवश्यकादिक्रियापरः समजनि ।अथ ऋषभसेनस्तं जिनधर्मपरायणं निजसाधीर्मिणं ज्ञात्वा तस्मै निजतनयां ददौ, अथायं