________________
YS
अकारि दुष्कृतं पूर्वे भवेऽस्माभिर्य-तोऽधुना । लेभे हीऩकुले जन्म, दारिद्रोपद्रवः पुनः ।। ७२ ।। इति चिंताजुषां तेषां मुनिर्दृग्गोचरं गतः । शुभोदयेन सद्भक्त्या, स तैरागत्य वंदितः ||७३|| योग्यान् विज्ञाय विनया, - वनतांस्तान् दयापरः । धर्मोपदेशं प्रददौ, स वाचंयमपुंगवः रोहिणी - ६ ॥७४॥ धर्मः कल्पद्रुमः पुंसां, धर्मश्चिंतामणिः परः । धर्म एवापवर्गस्य, पारंपर्येण साधकः ॥७५ || धर्मस्य जननी, जीव, दयैव गदिता ॥ ९ ॥ अशोकचन्द्र जिनैः । सौभाग्यारोग्यदीर्घायुः, श्लाघादाने पटीयसी ॥ ७६ ॥ इति साधुमुखात् श्रुत्वा, श्रद्धाभावितचेतसः । ते प्रपयाईतं धर्म, माराध्य कथा ॐ च दिवं गताः ॥७७॥ ततश्युत्वा बभूवुस्ते, गुणपालादयस्तव । सप्तापि भूपते पुत्रा. रूपेण सुरसन्निभाः ॥७८॥ अथाष्टमसुतस्याहं, बच्मि ॥ ९ ॥ पूर्वभवं नृप । वैताढ्यशैले भिल्लांक, पुरमासीत्पदं श्रियः ॥ ७९ ॥ तत्र विद्याधग नाम्ना, चारुकीर्तिरभूत्पुरा । अर्हदर्चावंदनादि, - कृत्यं चक्रे चिरं सुधी ||८०|| सोते समाधिना मृत्वा, स्वर्गं सौधर्ममासदत् । ततश्च्युतोऽभवल्लोक, -पालाख्यस्ते सुतोऽष्टमः ||८१|| सान्निध्यं देवता तस्य चकार पतनक्षणे । प्राक् शुभाचीर्णतः सोऽयं, सुतोऽजायत ते नृप ||८२ ॥ पुत्रीणामथ भूपाल, प्राचीनसुकृतं श्रृणु । वैताद्ये श्रीपुरे चित्र - गतिर्विधाधरोऽभवत् ॥ ८३॥ पुत्र्यश्वतम्रस्तस्यासन्, रूपलावण्यराजिताः । जग्मुरन्येयुरुद्यानं, क्रीडां ताः कर्तुमुद्यताः ॥८४॥ ज्ञानिनं च मुनिं तत्रा, पश्यंस्तां सुकृतोदयात् । साधुरप्यवदद्भद्रा, धर्मं वित्थ विधत्थ च ।।। ८५ ।। उचुस्ता न वयं विद्मः सुकृतं कुर्महे न च । मुमुक्षुरवदत्स्तोक, - मायुर्वो वर्तते खलु ||८६ | जगुस्ताः कियदस्माक, मायुरस्ति प्रभो वद । अवक् साधुर्वासरेऽस्मिन् पंचत्वं वो भविष्यति ॥८७॥ ताभिः सर्वाभिरप्युक्तं मुमुक्षो स्तोकवेलया । क्रियते धर्मकृत्यं किं, परलोकसुखावहं ।। ८८ ।। वाचंयमोऽप्युवाचेवं, वचनं श्रृणुतानघाः । विद्यतेऽद्य दिनं शुक्ल, पंचम्या अतिशोभनं ॥ ८९ ॥ ज्ञानस्याराधनं भक्त्या, क्रियतेऽयतने दिने । उपवासस्य च प्रत्याख्यानं सुगुरुसन्निधौ ॥ ९० ॥ अतो यूयं हि कुरुतो, पवासं श्रद्धयान्विताः । सुखिन्यस्तपसानेन, भविष्यथ भवांतरे ||९१ || साधूदितं वचः श्रुत्वा, तत्तपः प्रतिपद्य ताः । अभिवंद्य गुरुं जग्मुः, स्वगृहं गतकभ्मषाः । ९२ ।। ऊचुर्व्यतिकरं सर्वं तं पितुः पुरतो हि ताः । तेनापि श्लाघिताः सत्यो, धन्यंमन्या मुदं दधुः || ९३ || स्थितास्ताः शुभभावेन, प्रपूज्य परमेश्वरं । विद्युत्पातेन तावच्च, मृत्वा जग्मुः सुरालयं ॥ ९४ ॥ ततश्च्युताः
-
-