________________
रोहिणी - ६ अशोकचन्द्र
कथा
|| 2 11
॥४८॥ तत्तपो विधिना चक्रे, शर्मदं सा मनस्विनी । क्रमात्सुगंधा सुभगा जनमान्या च साभवत् ||४९|| मृत्वा समाधिना सांते, देवीभूता ततश्च्युता । चंपेशमघवपुत्री, संजाता तनयोत्तमा ॥५०॥ सुरूपा रोहिणी नाम्ना सदा शोकविवर्जिता । तव राज्ञी महीपाल बभूवेयं महासती
॥ ५१ ॥ पुनर्वभाण भूपालो, भगवन् ! कथ्यतां मम । अस्या मयि महान् स्नेहो, ममाप्यस्यां कुतो हि सः ॥ ५२ ॥ मुनिर्जगाद राजेंद्र, ॥ ८ ॥ तन्निदानं वदाम्यहं । सावधानं मनः कृत्वा, श्रृणु श्रावकपुंगव ॥ ५३|| सिंहसेनोऽथ नृपतिः, सुगंधात्र्यं स्वनंदनं । राज्येऽभिषिच्य सुगुरोः, पार्श्वे दीक्षां स्वयं ललौ ॥५४॥ सुगंधराजापि चिर - माराध्य जिनशासनं । प्रांते समाधिना मृत्वा देवभूयं समासदत् ॥ ५५ ॥ इत जंबूद्वीपस्थ - विदेहे सुखसद्मनि । विजये पुष्कलावत्यां, नगरी पुंडरीकिणी ॥५६॥ तत्रासीन्मेदिनीपालः प्रजापालनतत्परः । नाम्ना हि विमलकीर्ति, वारुकीर्तिर्महामतिः || ५७|| चारुभद्रा सुभद्रेति, नाम्ना तस्य सधर्मिणी । सुशीला मंजुवचना, लावण्यरसनिम्नगा ॥ ९८ ॥ स्वर्गात् सुंगधजीवो हि, च्युत्वा तत्कुक्षिकंदरे । चतुर्दशमहास्वप्न, सूचितोऽवातरन्निशि ।। ५९ ।। शुभेऽह्नि तनयं देवी, प्रासूत शुभलक्षणं । सहस्ररश्मेिं प्राचीव, जयदत्तं शची यथा ॥ ६०|| अर्ककीर्तिरिति ख्यातं पित्रा नाम विनिर्ममे । सुतस्य प्रेमपात्रस्य, चारुगात्रस्य संमदात् ॥६१॥ धात्रीभिर्लाल्यमानोऽसौ, वृद्धिं प्राप दिने दिने । व्याधात्कलानां शौर्यादि - गुणानां च स संग्रहं ॥ ६२॥ क्रमाच्चक्रिपदं प्राप्य, मुक्त्वा राज्यं परं चिरं । जितशत्रुगुरोः पार्श्वे, प्रवब्राज सुधीनिधिः ॥६३॥ सुदुष्करं तपस्तप्त्वा शुद्धां दीक्षां प्रपाल्य सः । कालं कृत्वाच्युतेंद्रोऽभूद्, द्वादशे त्रिदशालये ।। ६४ ।। ततश्च्युत्वा महीनाथ, त्वमशोकाभिधोऽभवः । करणादेकतपसः, स्नेहोऽस्ति युवयोर्मिथः || ६५ || स्वसुतानां सुंदरत्वे, कारणं श्रृणु भूपते । वदामि मथुरापुर्या-मग्निशर्मा द्विजोऽभवत् ॥ ६६ ॥ बभ्रुवुनंदनास्तस्य, सप्त दारिग्रभाजनं । भिक्षायै लोकगेहेषु, भ्रमंति स्म निरंतरं ||६७ || अन्यदा पाटलीपुत्रे, पुरे भिक्षाकृते ययुः । ते सप्त नगरोयाने, तस्थुर्विश्रामहेतवे ॥ ६८ ।। तेऽपश्यन् भूपतेः पुत्रा, नानाभरणभूषितान् । क्रीडतः क्रीडया कामं, सुरूपान् देवसन्निभान् ।। ६९ ।। दृष्ट्वा हि क्रीडनं तेषा, मचिंति द्विजनंदनैः । अहो पुण्यफलं चित्त, चमत्कारकरं महत् ॥ ७० ॥ नूनमेभिस्तपस्तप्तं परं प्राचीनजन्मनि । यस्माद्राजकुले जन्म, लब्दं रूपमनुत्तरं ॥ ७१ ॥
-