________________
॥ ७ ॥
E कोऽयं, सुगंधाख्यो महीपतिः । गुरुर्बभाण भरते, - त्रास्ति सिंहपुरं पुरं ॥२७॥ सिंहसेनाभिधस्तत्र, भूपोऽभूद्भरिविक्रमः । पत्न्यासीत्तस्य
कनक, - प्रभा चारुप्रभान्विता ॥२८॥ तयोर्बभूव तनयो, लोकानामप्रियोऽधिकं । दुर्गंधो दुर्भगो निंद्यो, नाम्ना निर्नामकः स्मृतः ॥२९॥ रोहिणी- तेनान्यदा मुदावंदि, जिनः पद्मप्रभाभिधः। पृष्टश्च विनयात्पूर्व, - भवोऽथ प्रभुरप्यवक् ॥३०॥ बभूव श्रीनागपुरात्, पुराद् द्वादशयोजने । अशोकचन्द्र नीलवगिरिरत्युच्चो, विशालवरगह्वरः ॥३१॥ तत्रैकः कुरुते साधु, - सिक्षपणमादरात् । पूर्वकर्म क्षपयितुं, वरवैराग्यसागरः ॥३२॥ तदा __ कथा 8 तत्रागमद्व्याधः, पाणौ विधृतकार्मुकः । मृगादिजंतुजातानां, हिंसायां विहितादरः ॥३३॥ मुनिप्रभावात्स व्याधः, स्वकृत्ये निष्फलोऽजनि। ॥ ७ ॥ ह साधुर्जगाम ग्रामांत, - मिक्षायै पारणाहनि ॥३४॥ कृत्वा पारणकं साधु, - स्तत्रागत्य शुभाशयः । कायोत्सर्ग चकारोच्चैः, शत्रुमित्रसमानदृक्
॥३५॥ व्याधः क्रुधा ज्वलन् साधु, - सन्निधाविंधनोत्करे । चिक्षेप वहिं पापात्मा, किं ह्यकृत्यं दुरात्मनां ॥३६॥ व्यथां तपोद्भवां साधुः र सहमानः सुदुस्सहां । शुभध्यानवशात्प्राप्य, केवलं मुक्तिमासदत् ॥३७॥ व्याघोऽपि तेन पापेन, गलत्कुष्ठी बभूव सः । तापार्दितः क्रमान्मृत्वा, 88 EN सप्तमं नरकं ययौ ॥३८॥ ततो घूकस्ततश्चाये, नरके नारकस्ततः । सर्पः पंचमनरके, नारकः केसरी ततः ॥३९।। चतुर्थे नरके नैर, Ema - यिकस्ततश्च चित्रकः। ओतुर्द्वितीये नरके नारको घूकपक्ष्यपि ॥४०॥ ततश्चाद्ये हि नरके, नारको दुःखपीडितः । ततो दारिद्रगोपालः, me
सोऽभवत्कर्मयोगतः ॥४१॥ त्रिभिर्विशेषकं ॥ स गोपः काननेऽन्येद्यु, - देवदग्धो गतः पुरे । श्राद्धदत्तनमस्कारो, मृतिमाप समाधिमान् ॥४२॥ नमस्कारस्य माहा-त्म्यात्त्वमभूर्नृपनंदनः । शेषदुष्कर्मदोषेण, दुर्गंधश्च नरोत्तम ॥४३॥ श्रुत्वेत्यर्हद्वचस्तस्य, जातिस्मृतिरजायत । ततः सोऽवग् जिनं मां त्वं, निस्तारय दयांबुधे ॥४४॥ अर्हनुवाच भो भद्र ! कुरु त्वं रोहिणीतपः । सोऽपि प्रपद्याईद्वाक्यं, तचकार तपश्चिरं
॥४९॥ प्रभावात्तपसस्तस्य, दुर्गधत्वमगादलं । सुगंधत्वमभूदेहे, तपसा किं न सिध्यति ॥४६॥ सुगंध इति तस्यासी, - नामापि जगतीतले। RAS लोकैः सर्वैः श्लाघितस्य, यशः पुण्यैरवाप्यते ॥४७॥ तथा तपःप्रभावेण, सुगंधा त्वं भविष्यसि । श्रुत्वेति सा गुरोर्वाक्यं, तथेति प्रत्यपद्यत