SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ॥ ७ ॥ E कोऽयं, सुगंधाख्यो महीपतिः । गुरुर्बभाण भरते, - त्रास्ति सिंहपुरं पुरं ॥२७॥ सिंहसेनाभिधस्तत्र, भूपोऽभूद्भरिविक्रमः । पत्न्यासीत्तस्य कनक, - प्रभा चारुप्रभान्विता ॥२८॥ तयोर्बभूव तनयो, लोकानामप्रियोऽधिकं । दुर्गंधो दुर्भगो निंद्यो, नाम्ना निर्नामकः स्मृतः ॥२९॥ रोहिणी- तेनान्यदा मुदावंदि, जिनः पद्मप्रभाभिधः। पृष्टश्च विनयात्पूर्व, - भवोऽथ प्रभुरप्यवक् ॥३०॥ बभूव श्रीनागपुरात्, पुराद् द्वादशयोजने । अशोकचन्द्र नीलवगिरिरत्युच्चो, विशालवरगह्वरः ॥३१॥ तत्रैकः कुरुते साधु, - सिक्षपणमादरात् । पूर्वकर्म क्षपयितुं, वरवैराग्यसागरः ॥३२॥ तदा __ कथा 8 तत्रागमद्व्याधः, पाणौ विधृतकार्मुकः । मृगादिजंतुजातानां, हिंसायां विहितादरः ॥३३॥ मुनिप्रभावात्स व्याधः, स्वकृत्ये निष्फलोऽजनि। ॥ ७ ॥ ह साधुर्जगाम ग्रामांत, - मिक्षायै पारणाहनि ॥३४॥ कृत्वा पारणकं साधु, - स्तत्रागत्य शुभाशयः । कायोत्सर्ग चकारोच्चैः, शत्रुमित्रसमानदृक् ॥३५॥ व्याधः क्रुधा ज्वलन् साधु, - सन्निधाविंधनोत्करे । चिक्षेप वहिं पापात्मा, किं ह्यकृत्यं दुरात्मनां ॥३६॥ व्यथां तपोद्भवां साधुः र सहमानः सुदुस्सहां । शुभध्यानवशात्प्राप्य, केवलं मुक्तिमासदत् ॥३७॥ व्याघोऽपि तेन पापेन, गलत्कुष्ठी बभूव सः । तापार्दितः क्रमान्मृत्वा, 88 EN सप्तमं नरकं ययौ ॥३८॥ ततो घूकस्ततश्चाये, नरके नारकस्ततः । सर्पः पंचमनरके, नारकः केसरी ततः ॥३९।। चतुर्थे नरके नैर, Ema - यिकस्ततश्च चित्रकः। ओतुर्द्वितीये नरके नारको घूकपक्ष्यपि ॥४०॥ ततश्चाद्ये हि नरके, नारको दुःखपीडितः । ततो दारिद्रगोपालः, me सोऽभवत्कर्मयोगतः ॥४१॥ त्रिभिर्विशेषकं ॥ स गोपः काननेऽन्येद्यु, - देवदग्धो गतः पुरे । श्राद्धदत्तनमस्कारो, मृतिमाप समाधिमान् ॥४२॥ नमस्कारस्य माहा-त्म्यात्त्वमभूर्नृपनंदनः । शेषदुष्कर्मदोषेण, दुर्गंधश्च नरोत्तम ॥४३॥ श्रुत्वेत्यर्हद्वचस्तस्य, जातिस्मृतिरजायत । ततः सोऽवग् जिनं मां त्वं, निस्तारय दयांबुधे ॥४४॥ अर्हनुवाच भो भद्र ! कुरु त्वं रोहिणीतपः । सोऽपि प्रपद्याईद्वाक्यं, तचकार तपश्चिरं ॥४९॥ प्रभावात्तपसस्तस्य, दुर्गधत्वमगादलं । सुगंधत्वमभूदेहे, तपसा किं न सिध्यति ॥४६॥ सुगंध इति तस्यासी, - नामापि जगतीतले। RAS लोकैः सर्वैः श्लाघितस्य, यशः पुण्यैरवाप्यते ॥४७॥ तथा तपःप्रभावेण, सुगंधा त्वं भविष्यसि । श्रुत्वेति सा गुरोर्वाक्यं, तथेति प्रत्यपद्यत
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy