________________
॥ ६ ॥
र अस्मै वलित्वा मुनये, दानं देहि वरानने ॥४॥ प्रपद्य तद्वचः पत्यु, - रेषा बहिःप्रमोदभाक् । क्रीडांतरायाद्रुष्टांत, - ववले स्वगृहं प्रति
॥५॥ गत्वा सा स्वगृहं तस्मै, साधवे कटुतुंबकं । प्रद्वेषपूरिता प्रादात्, प्रद्विष्टाः किं न कुर्वते ॥६॥ मुनिः कृत्वा तमाहारं, स्वांत्यावस्थां । रोहिणी- विभाव्य च । विधायाऽनशनं सम्यग्, जगाम त्रिदशालयं ॥७॥ विज्ञाय तन्महीपालः, सर्व व्यतिकरं क्रुधा । द्रुतं निष्कासयामास, तां अशोकचन्द्र राज्ञी निजदेशतः ॥८॥ साभवत्सप्तमे घने, वराकी कुष्टिनी ततः । अत्युग्राणां हि पापाना, - मिहेव फलमाप्यते ॥९॥ यतः - चेइअदव्वविणासे,
कथा र इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥१०॥ चिरं जनैर्निंद्यमाना, ताड्यमाना पदे पदे । सा मृत्वा नरकं हुई ॥ ६ ॥ ४ षष्ठं, जगामाघसमार्जितं ॥११॥ ततस्तिरश्वां सा योना, वुत्पन्ना पूर्वकर्मतः । ततश्च दुःखप्रचुरे, सप्तमे नरके खलु ॥१५॥ एवं हि प्रययौ 83
ह पापा, सर्वेषु नरकेषु सा । नराणां पाप्मनां न स्या, - नरकादपरा गतिः ॥१३॥ ततः सा सर्पिणी चोष्ट्री, श्रृगाली कुर्कुटी तथा । 3
शूकरी गृहगोधा च, जलौका मूषिका पुनः ॥१४॥ काकी शुनी बिडाली च, रासभी गौरजा तथा । प्रायोऽग्निशस्त्रघातायै, - म॒तिरेषु ET भवेष्वभूत् ॥१५॥ युग्मं ॥ धेनुस्तु स्वांत्यसमये, नमस्कारं गुरूदितं । श्रुत्वानुमोदयामास, मृतिमाप च तत्क्षणात् ॥१६॥ नमस्कारप्रभावेण, EMA साभवत्तव नंदिनी । कर्मणा तेन दुर्गंधा, दुर्भगा च महामते ॥१७॥ इति पूर्वभवोदंत, - माकर्ण्य गुरुणोदितं । शुभध्यानवशात्काली, लेभे Ema जातिस्मृतिं क्षणात् ॥१८॥ दृष्ट्वा पूर्वभवानेषा, भीता मुनिमवोचत । एतस्माद्दुष्कृताद् द्राग्मां, निस्तारय दयापर ॥१९॥ गुरुः प्रोवाच
भो भद्रे ! कुरु त्वं रोहिणीतपः । सप्तवर्षाणि सप्तैव, मासान् यावच्छुभाशया ॥२०॥ रोहिणीनामनक्षत्र, - दिने हि क्रियतां त्वया । उपवासश्चाईतोऽर्चा, वासुपूज्यस्य भक्तितः ॥२१॥ एतत्तपःप्रभावात्त्व, - मशोकचंडभूपतेः । भूत्वा राज्ञी तपस्तप्त्वा, ब्रजिष्यसि शिवं शुभे ॥२२॥ तदा हि वासुपूज्यस्या, - हंतस्तीर्थं भवि-ष्यति। पावनं भव्यलोकाना, - मीहितार्थसुरद्रुमं ॥२३॥ रजताशोकवृक्षस्य, तलस्थे जिनसझनि । सुवर्णनिर्मिते वासु, - पूज्यस्य प्रतिमां नवां ॥२४॥ कारयित्वा रत्नमयीं, नानाभरणभूषितां । विधाय भद्रे सतत, - मधुना त्वं प्रपूजय ॥२५ ॥ युग्मं ॥ तेन पुण्येन भो भद्रे ! त्वं सुगंधा भविष्यसि । सुगंधभूपवद्भरि, - पुण्यादिष्टं न किं भवेत् ।।२६॥ सावदद्भगवन् !