________________
*संगं कामयते तव ॥६४॥ साप्याह फलमादातुमुचितं यौवनश्रियः । कुलस्त्रीणां न युज्यते, किंत्वन्यनरसंगमः ॥६५॥ किंचैतदप्याचर्येत, 8
लभ्यते चेन्मनीषितम्। फलाभक्ष्यमपि स्नेह-लोभेन स्यात् फलेग्रहिः ॥६६॥ तयोचे तत् कियन्मात्रं, याचसे ? साप्यवोचत । ददातु सांप्रतं 8
मे-ऽर्धलक्षं प्रगुणताकृते ॥६७॥ एत्वर्धलक्षमादाय, पंचमेऽह्नि पुनः स्वयम् । पूरयामि यथापूर्णा-मस्य कांचित्सुखासिकाम् ॥६८॥ न्यवेदयदशोकाय, शीलवती मुदिता दूतिकापि तत् । तहत्तमर्धलक्षं च, शीलवत्यै समार्पयत् ॥६९॥ ततोऽपवरकस्यांतः, सुबुद्धिः शीलवत्यपि । प्रच्छन्नं स्वनरैर्गा,*
ॐखानयामास मांसलाम् ॥७०॥ सोत्तरच्छदमन्यूतं, पर्यकं तदुपर्यधात् । पंचमेऽह्नि ततः सोऽध, लक्षमादाय सोन्मदः ॥७१॥ तांबूलहस्तः
सौभाग्या-न्मन्वानः तृणवज्जगत् । समेत्योपाविशंस्तत्र, गर्तान्तः सहसाऽपतत् ॥७२॥ युग्मम् ॥ रज्जुबद्धशरावण, ददती भोजनोदके । नरकोन्या जीवमिव तं तत्रास्थापयत् सती ॥७३॥ मासमात्रे व्यतिक्रांते, राजाऽऽख्यन्नर्ममंत्रिणः । सिद्धार्थः किमसिद्धार्थो, नाशोकस्तावदागतः ? ॥७॥ भूपेन पुनरादिष्टो, वितीर्य द्रविणं ततः । रतिकेलिचिकीस्तस्यां, रतिकेलिरथागमत् ॥७५॥ तयैकलक्षमादाय, सोऽपि तत्रैव पातितः । बुद्धेर्हि सुप्रयुक्तायाः, किमसाध्यमपि कचित् ॥७६॥ एवं लक्षमुपादाय, प्रत्येकमुभयोरपि । कामांकुरललितांगा-वपि साऽपातयत् : क्रमात् ॥७७॥ चातुर्गतिकसंसार-दुःखानीव महासती । पाताले पातयामास, चतुष्पुरुषदंभतः ॥७८।। अथ शत्रु विनिर्जित्य, राजा ॐ ॐसिंहरथाभिधम् । प्रविवेश पुरं पौरः, कृतमंगलमालिकम् ॥७९॥ तेऽथ शीलवतीं प्रोचु-र्दीनास्याः पीडिताः क्षुधा। अनात्मज्ञा नरा यत्स्यु-ॐ *रस्मद्वदुःखभाजनम् ।।८०॥ न दृष्टं तव माहात्म्यं, अस्मानादेशकारिणः । निष्काशयैकदाऽमुष्मा-नरकादिव कूपतः ॥८॥ तयोचे चेयथादिष्टं, *
वचनं मे करिष्यथ । तदा मोक्ष्यामि तैरूचे, यत्कर्तव्यमथादिश ॥८२॥ एवं भवत्विति यदा, ब्रवीम्यहमशंकितम् । भवद्भिरपि वक्तव्या,* *भवत्वेवं तदेति वाक् ॥८३॥ शिक्षयित्वेति तान्नाथ-मूचेऽथ मतिमत्तमा । निमंत्र्यैकदा भूपं, स्वगेहे सपरिच्छदम् ॥८४॥ तथैव विहिते * तेन, समेतस्तत्र भूपतिः । मुक्तावचूलोल्लोचादि-विस्तारयोतितांबरे ॥८५॥ तया भोजनसामग्री, प्रच्छन्ना विदधेऽखिला । उपविष्टश्च भूपालो, * भोक्तुं सारपरिच्छदः ॥८६॥ दध्यौ च दृश्यते तावन्न, कश्चिद् भोजनोद्यमः । निमंत्रिता वयं चैते, तत् किमेतदिहाद्भुतम् १ ॥८॥
6900CCOCOCCC