________________
॥ ४ ॥
*गीयते । संवादयन्ति दुःशीलं, तन्नार्यः कामविह्वलाः ॥५६॥ निशीथेऽद्य गता कापि, नीराहरणदम्भतः । यामेन पुनरप्यागात्, जाग्रतो* * मे वधूप्रियम् ॥५७॥ अवेहि तदिमां वत्स !, दुर्वृत्तां त्यजनोचिताम् । गुर्वादेशपराधीन-स्तथेत्युक्त्वा गतः सुतः ॥५८॥ श्रेष्ठी कूटप्रयोगेण, *
* तस्याः प्रातरजिज्ञपत् । त्वामाह्वयति ते तातो, वत्से ! मिलितुमुत्सुकः ॥५९॥ ज्ञात्वा रात्रिविकल्पं तं, विदग्धा शीलवत्यपि । अनुमाने * शीलवती
*परीक्षायां, किं जात्यं हेम कम्पते ? ॥६०॥ स्यन्दनं प्रगुणीकृत्य, शीलवत्या समन्वितः । स्वयं रत्नाकरः श्रेष्ठी, चचाल कृतमंगलम् कथा
॥६॥ मार्गे नद्यामुपेतायां, श्रेष्ठी शीलवती जगौ । पादत्राणे परित्यज्य, वत्से ! सञ्चर पाथसि ॥६२॥ किञ्चिद्विचार्य साप्यन्त-स्ते दृढीकृत्य : पर्यधात् । मेने च दुर्विनीता तां, श्रेष्ठी प्राग्धृतकश्मलः ॥६३॥ पुरः फलितमालोक्य, मुद्रक्षेत्रं जगावसौ । अहो ! शस्यश्रियः क्षेत्र-*
स्वामिनः करगोचराः ॥६॥ स्नुषाऽभाणीदेवमेतनजग्धं यदिदं पुरा । श्रेष्ठी दध्यावसम्बद्ध-प्रलापिन्यप्यसाविति ॥६५॥ एतस्यां वामचारित्वा-3 *नुरूपं कृतवानिति । मुदितो द्रुतसम्पातं, श्रेष्ठी रथमचालयत् ॥६६॥ समृद्धया धनदद्रंग-सरंगं जनसंकुलम् । पुरः पुरमथोदीक्ष्य, शश्लाघ
मूर्द्धधूननात् ॥६७॥ तयापि ब्यापिबुद्धयोचे, साध्विदं यदि नोद्वसम् । श्रेष्ठिनाऽचिन्ति सोल्लंठगीर्मामपि हसत्यसौ ॥६८। अग्रेऽथ भटमालोक्य,
प्रहारभरजर्जरम् । श्रेष्ठी श्लाधितवानस्य, शौंडीय साधु साध्विति ॥६९।। विलोक्य तमयो प्राह, मधाविव पिकी वधूः । साध्वस्ति कुट्टितस्तावत्, ®पामरः श्वेव कातरः ॥७॥ प्रतिकूला वधूनं, मदुक्ते दुष्टचारिणी । प्रत्यक्षेऽपि विरुद्धार्थ-मुन्मत्तेवाभिधत्ते या ॥७१॥ भावयन्निति तत्त्याग
कर्म चाप्यनुमोदयन् । न्यग्रोधपादपाधस्तात्, कापि श्रेष्ठी स्थितः पथि ॥७२॥ वधूरपि वटच्छायां, परिहत्य, सुदूरतः । आतपे पटमावृत्य, तस्थौ स्थिरमतिप्रभा ॥७३॥ श्रेष्ठी प्राह जिनदत्तां-गजे ! छायामुपाश्रय । श्रुत्वाऽप्यश्रुतकेनेव, साऽस्थाद् गजनिमीलया ॥७४॥ अहो ! वारितबामेयं, न शिक्षार्थी कुशिष्यवत् । इत्युपेक्ष्य स्वयं तस्थौ, तच्छायाप्तसुखासिकः ॥७५॥ ततः कापि गतः श्रेष्ठी, कर्बटे तत्र गत्वरी।
कुटीस्त्रिचतुरा वीक्ष्य, ग्रामं दुस्थमुदाहरत् ॥७६॥ ततः शीलवती किंचिद्, विमृश्य मतिमद्वरा । जनतासंकुलं स्थान-मिदमित्युच्चकैर्जगौ * *॥७॥ सर्वथा विपरीतेयं, कुशिक्षिततुरंगवत् । इति यावद् विषण्णात्मा, श्रेष्ठी चेतस्यचिन्तयत् ॥७८॥ तावता मातुलस्तस्या-स्तमभ्येत्य *
COCOCOCOCCE