SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्रीगच्छाचारलघुवृत्तौ ॥२॥ जन्म मर्यादी कृत्य 'आजन्म' यावज्जीवमित्यर्थः 'हे गौतम !' 'संयतः' षड्जीव पालनतत्परः 'मुनिः' गुर्वभिप्रायागमवेत्ता ॥७॥ अथ सद्गुणः सदाचार्येणैव भवत्यतः सदाचार्य लक्षणमाह मेढी आलंबणं खंभं, दिट्ठी जाणं सुउत्तिमं । सूरी जं होइ गच्छस्स, तम्हा तं तु परिक्खए ॥ ८ ॥ मेढी० ॥ ‘मेढी’त्ति मेढिः- पशुबन्धार्थं खलमध्ये स्थूणा, यथा तया बद्धानि बलीवर्दादिवृन्दानि मर्यादया प्रवर्त्तन्ते, 'आलम्बनं' यथा गर्त्तादौ पतज्जन्तोर्हस्ताद्याधार आलम्बनं तथा भवगर्त्तायां पततां भव्यानामाचार्य आलम्बनं, कामातुरस्वशिष्यं प्रति नन्दिषेणवत्, 'खंभ' यथा स्तम्भो गृहाधारो भवति तथाऽऽचार्यः साधुसंयम गृहाधारः मेघसंयमगृहं प्रति श्रीवीरवत्, 'दिठ्ठी' ति नेत्रं यथा नेत्रेण हेयोपादेयं विलोक्यते तथाऽऽचार्यरूपनेत्रेण हेयोपादेयं ज्ञायते प्रदेशिवत्, 'यानं' यानपात्रं यथा अच्छिद्रं यानपात्रं सत्संयोगे तीरं प्रापयति तथाऽऽचार्योऽपि भवतीरं प्रापयति, जम्बूस्वामिनं प्रति श्रीसुधर्मस्वामिवत्, 'सुउत्तिम' मिति सुष्ठु - अत्यर्थ दृढा गुप्तिः - नवब्रह्मचर्यरूपा अस्यास्तीति सुगुप्तिमान्, यद्वा सुष्ठु - अतिशायिनी कुमतकर्कशप्रस्तरटङ्कणायमाना सङ्घपद्मचन्द्रायमाना युक्तिरस्यास्तीति सुयुक्तिमान्, अथवा 'सुउत्तम' मिति पाठे तु सुठु| अतिशयेनाचार्यगुणैरुत्तमः 'यत्' यस्मात् एवंविधः 'सूरिः' आचार्यो भवति 'गच्छस्य' गणस्य योग्यस्तस्मात् 'तं' आचार्य 'परिक्खए 'ति तस्य परीक्षां कुर्यादित्यर्थः ॥ ८ ॥ सन्मार्गस्थिताचार्यस्वरूपं किञ्चिद्दर्शितं, अथैतद्विपरीतस्वरूपं प्रश्नयन्नाह - भवं ! केहिं लिंगेहिं, सूरिं उम्मग्गपट्ठियं । विद्याणिजा छउमत्थे, मुणी ! तं मे निसामय ॥ ९ ॥ भय० ॥ 'हे भगवन् !' हे पूज्य ! कैः 'लिङ्गैः' लक्षणैः सूरिं 'उन्मार्गप्रस्थितं' विरुद्धमार्गव्यवस्थितं विजानीयात् आचार्य लक्षणम् गा. ८-९ २० २५ ॥२॥ २८
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy