________________
सूर्यप्रज्ञसिवृत्तिः (मल.) ॥४४॥
१प्राभूते ८प्राभृतप्राभृतं
अध्वा पञ्चदशोत्तराणि योजनशतान्यष्टाचत्वारिंशच्चैकषष्टिभागा योजनस्येत्याख्यात इति वदेत् , पूर्वस्मादध्वपरिमाणात् एतस्याध्वपरिमाणस्य सर्वबाह्यमण्डलगतेन बाहल्यपरिमाणेनाधिकत्वात् , 'ता अभितरे'त्यादि, 'ता' इति अभ्यन्तरान्मण्डलपदात्परतो बाह्यमण्डलपदात्-सर्वबाह्यमण्डलादर्वाक् यद्वा बाह्यमण्डलपदादाक अभ्यन्तरमण्डलात्परत एषः अध्वा कियानाख्यात इति वदेत् ?, भगवानाह-'ता पंचे'त्यादि, पञ्च योजनशतानि नवोत्तराणि त्रयोदश चैकषष्टिभागा योजनस्य आख्यात इति वदेत् , पूर्वस्मादध्वपरिमाणादस्याध्वपरिमाणस्य सर्वाभ्यन्तरमण्डलगतसर्वबाह्यमण्डलगतबाहल्यपरिमाणेन पञ्चत्रिंशदेकषष्टिभागाधिकैकयोजनरूपेण हीनत्वात् , तदेवमभ्यन्तरान्मण्डलात्परतो यावत्सर्वबाचं मण्डलं सर्वबाह्याद्वा मण्डलादाक् यावत्सर्वाभ्यन्तरं मण्डलं तथा सर्वाभ्यन्तरसर्वबाह्यमण्डलाभ्यां सह तथा सर्वाभ्यन्तर| सर्वबाह्यमण्डलाभ्यां विना यावदध्वपरिमाणं भवति तावन्निरूपित, सम्प्रति सर्वाभ्यन्तरेण मण्डलेन सह सर्वाभ्यन्तरान्मण्डलात्परतो बाह्यमण्डलादर्वाक यदिवा सर्वबाह्यमण्डलेन सह सर्वबाह्यमण्डलादाक् सर्वाभ्यन्तरान्मण्डलात्परतो यावदध्वपरिमाणं भवति तावन्निरूपयति-'अभितराए'इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरान्मण्डलात्परतः सर्वबाह्यान्मण्डलादवोंगिति गम्यते, यदिवा सर्वबाह्येन मण्डलपदेन सह सर्वबाह्यान्मण्डलादवोक् सर्वाभ्यन्तरान्मण्डलात्परत इति गम्यते, योऽध्वा एष णमिति वाक्यालङ्कारे अध्वा कियानाख्यात इति वदेत् , भगवानाह-'ता' इत्यादि, तावानध्वा पञ्चदशोत्तराणि योजनशतानि आख्यात इति वदेव, भावना सुगमत्वान्न क्रियते । इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां प्रथमस्य प्राभृतस्याष्टमं प्राभृतप्राभृतं समाधम् ॥
॥४४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org