SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मण्डलपदानि प्रत्येकं बाहल्येनाष्टाचत्वारिंशदे कषष्टिभागा योजनस्य, उपलक्षणमेतत् अनियतानि चायामविष्कम्भपरिधिभिः तथा सर्वाण्यपि च मण्डलान्तरकाणि - मण्डलान्तराणि, सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, द्वे द्वे योजने विष्कम्भेन, तत एष द्वे योजने अष्टाचत्वारिंशच्चैकषष्टिभागा योजनस्येत्येवंरूपो, णमिति वाक्यालङ्कारे, अध्वा - पन्थाख्यशी|त्यधिकशतप्रत्युत्पन्नः - त्र्यशीत्यधिकेन शतेन गुणितः सन् पञ्चदशोत्तराणि योजनशतान्याख्याता इति वदेत्, तथाहि - द्वे योजने त्र्यशीत्यधिकेन शतेन गुण्येते जातानि त्रीणि शतानि षट्षष्ट्यधिकानि ३६६, येऽपि च अष्टाचत्वारिंशदेकष|ष्टिभागास्तेऽपि त्र्यशीत्यधिकेन शतेन गुण्यन्ते जातानि सप्ताशीतिशतानि चतुरशीत्यधिकानि ८७८४, तेषां योजनानयनार्थमेकषष्ट्या भागो हियते, लब्धं चतुश्चत्वारिंशं योजनशतं १४४, तत् पूर्वराशौ प्रक्षिप्यते, जातानि पञ्च शतानि दशोत्तराणि ५१०, अस्यैवार्थस्य व्यक्तीकरणार्थं भूयः प्रश्नसूत्रमाह- 'ता अभितराओ' इत्यादि, 'ता' इति तत्र अभ्यन्तरात्- सर्वाभ्यन्तरान्मण्डलपदात् परतो यावद्वाह्यं सर्वबाह्यं मंडलपदं बाह्याद्वा सर्वबाह्याद्वा मण्डलपदादर्वाकू यावत्सर्वाभ्यन्तरं मण्डलपदमेष- एतावान् अध्वा कियान्-कियत्प्रमाण आख्यात इति वदेत् ?, एवमुक्ते गौतमेन भगवानाह - 'ता' इत्यादि, तावानध्वा पञ्चदशोत्तराणि योजनशतानि आख्यात इति वदेत् ? स्वशिष्येभ्यः, पञ्चदशोत्तरयोजनशतभावना प्रागुक्तानुसारेण स्वयं परिभावनीया, 'अभितराए' इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरा| न्मण्डलपदादारभ्य यावद्वाह्यं सर्वबाह्यं मण्डलपदं यदिवा बाह्येन - सर्ववान मण्डलपदेन सर्वबाह्यान्मण्डलपदादारभ्य यावत्सर्वाभ्यन्तरं मण्डलं एष एतावान् अध्वा कियानाख्यात इति वदेत् १, भगवानाह - 'ता पंचे' त्यादि, स एतावान् Jain Education International For Personal & Private Use Only " www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy