SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः ( मल० ) ॥ ४३ ॥ प्रकारेणाभ्यन्तरं प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सवबाह्यान्मण्डलादवातनं तृतीयं मण्डलमुपसङ्क्रम्य चारं चरति, तत्र यदा सूर्यः सर्वबाह्यान्मण्डलादर्वाक्तनं तृतीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा तन्मण्डलपदं अष्टाचत्वारिंशदेकपष्टिभागा योजनस्य बाहल्येन एकं योजनशतसहस्रं षट् च योजनशतानि अष्टाचत्वारिंशदधिकानि द्विपञ्चाशचैकषष्टिभागा योजनस्य २००६४८५२ आयामविष्कम्भेन - आयामविष्कम्भाभ्यां तथाहि - पूर्वस्मान्मण्डलादिदं मण्डलमाया| मविष्कम्भेन पश्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य हीनं, ततः पूर्वमण्डलविष्कम्भायामपरिमाणादेकं योजनशतसहस्रं षट् शतानि चतुष्पञ्चाशदधिकानि षडूविंशतिश्चैकषष्टिभागा योजनस्येत्येवंरूपात्पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्य शोध्यन्ते ततो यथोक्तमधिकृतमण्डलविष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके ३१८२७९ परिक्षेपतः प्रक्षिप्तं, तथाहि प्राक्तनमण्डलादिदं मण्डलं पञ्चभियजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य विष्कम्भतो हीनं, पञ्चानां योजनानां पञ्चत्रिंशतश्चैकषष्टिभागानां परिश्यपरिमाणं व्यवहारतोऽष्टादश योजनानि, ततस्तानि पूर्वमण्डलपरिरयपरिमाणात् शोध्यन्ते, ततो यथोक्तमधिकृतपरिरयपरिमाणं भवति, 'दिवसराई तहेव'ति दिवसरात्री तथैव प्रागिव वक्तव्ये, ते चैवम्-तथा णं अट्ठारसमुहुत्ता राई भवइ | चउहिं एगट्टिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहिं एगट्टिभागमुहुत्तेहि अहिए' इति, 'एवं खल्वि'त्यादि एतत्सूत्रं प्रागुक्त व्याख्यानानुसारेण स्वयं परिभावनीयं, नवरं 'निघेढेमाणे' इति निवष्टयन् निर्वेष्टयन् हापयन् हापयनित्यर्थः, 'ता जया ण' मित्यादि सुगमं, अधुना प्रस्तुतवक्तव्यतोपसंहारमाह-'ता सङ्घावि ण' मित्यादि, ततः सर्वाण्यपि Jain Education International For Personal & Private Use Only १ प्राभृते ८ प्राभृतप्राभृतं 11 83 11 www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy