________________
'एवं सङ्घबाहिरेवित्ति एवं सर्वाभ्यन्तरमण्डल इव सर्वबाह्येऽपि मण्डले आलापको वक्तव्यः, नवरं जम्बूद्वीपस्थाने 'अवद्धलवणसमुहं ओगाहित्ता' इति वक्तव्यं, तच्चैवम् - 'जया णं सूरिए सङ्घबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं अवङ्कं लवणसमुहं ओगाहित्ता चारं चरति, तया णं राईदियप्पमाणउन्भासगत्ति,' 'तया ण'मिति वचनपूर्वकं रात्रिन्दिवपरिमाणं जबूद्वीपापेक्षया विपरीतं वक्तव्यं, यज्जम्बूद्वीपावगाहे दिवसप्रमाणमुक्तं तद्रात्रेर्द्रष्टव्यं यद्रात्रेस्तद्दिवसस्य, तच्चैवम्- 'तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्ने दुवालसमुहुत्ते दिवसे भवइ', एवमुत्तरसूत्रे ऽप्यक्षरयोजना भावनीया । तदेवं परतीर्थिकप्रतिपत्तीरुपदर्य सम्प्रत्येतासां मिथ्याभावोपदर्शनार्थं स्वमतमुपदर्शयति
वयं पुण एवं वदामो, ता जया णं सूरिए सङ्घभंतरं मंडलं उवसंकमित्ता चारं चरति, तता णं जंबुद्दीवं असीतं जोयणसतं ओगाहित्ता चारं चरति, तदा णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, एवं सङ्घबाहिरेवि, णवरं लवणसमुदं तिण्णि तीसे जोयणसते | ओगाहित्ता चारं चरति, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, गाथाओ भाणितवाओ । (सूत्रं १७ ) पढमस्स पंचमं पाहुडपाहुडं ॥ १-५ ॥
'वयं पुण' इत्यादि, वयं पुनरुत्पन्न केवलज्ञानदर्शना ' एवं ' वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति तदा जम्बूद्वीपमशीत्यधिकं योजनशतमवगाह्य चारं चरति, तदा चोत्तमकाष्ठाप्राप्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org