________________
सूर्यप्रज्ञप्तिवृत्तिः (मल.) ॥३०॥
१ प्राभृते ५प्राभृत प्राभृतं
95545ऊॐॐ
जघन्यो द्वादशमुहूर्तो दिवसः, अत्रैवोपसंहारमाह-एगे एवमासु'४, एके पुनः पञ्चमास्तीर्थान्तरीया एवमाहुः-न किश्चिद् द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, अत्रायं भावार्थः-यदापि सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य सूर्यश्चारं चरति तदापि न किमपि जम्बूद्वीपमवगाहते, किं पुनः शेषमण्डलपरिभ्रमणकाले, यदापि सर्ववाद्यं मण्डलमुपसङ्क्रम्य सूर्यश्चार चरति तदापि न लवणसमुद्रं किमप्यवगाहते, किं पुनः शेषमण्डलपरिभ्रमणकाले, किन्तु द्वीपसमुद्रयोरपान्तराल एव सकलेष्वपि मण्डलेषु चारं चरति, अत्रोपसंहारमाह-एगे एवमाहंसु' ५। तदेवमुक्ता उद्देशतः पञ्चापि प्रतिपत्तयः, सम्प्रत्येता एव स्पष्टं भावयति
'तत्थ जेते एवमाहंसु'इत्यादि, प्रायः समस्तमपीदं व्याख्यातार्थ सुगमंच, नवरं 'चोत्तीसेवित्ति एवं त्रयत्रिंशदधिकयोजनशतविषयप्रतिपत्तिवत् चतुस्त्रिंशे शते या प्रतिपत्तिस्तस्यामालापको वक्तव्यः, स चैवम्-'तत्थ जे ते एवमाहंसु एगं जोयणसहस्सं एगं च चउतीसं जोयणसयं दीवं समुई वा ओगाहित्ता चारं चरइ, ते एवमाइंसु जयाणं सूरिए सबभंतरं मंडलं |उवसंकमित्ता चारं चरति तया णं जंबुद्दीवं एगं जोयणसहस्समेगं च चोत्तीसं जोयणसयं ओगाहित्ता चारं चरइ, तयाणं उत्तमकठ्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहन्निया दुवालसमुहत्ता राई भवइ,ता जया णं सूरिए सबबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं लवणसमुई एगं जोयणसहस्सं एगं चोत्तीस जोयणसयं ओगाहित्ता चारं चरति, तयाणं उत्तमकपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहन्नए दुवालसमुहत्ते दिवसे भवई' 'पणतीसे वि एवं चेव भाणियवं' एवमुक्केन प्रकारेण पञ्चत्रिंशदधिकयोजनशतविषयायामपि प्रतिपत्ती सूत्रं भणितव्यं, तच्च सुगमत्वात्स्वयं भावनीयं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org