________________
| परमतरूपाः प्रज्ञताः, तद्यथा — एके तीर्थान्तरीया एवमाहुः - ता इति तावच्छन्दस्तेषां तीर्थान्तरीयानां प्रभूतवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः एकं योजनसहस्रमेकं च त्रयस्त्रिंशदधिकं योजनशतं द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, किमुक्तं भवति ? - यदा सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकं योजनसहस्रमेकं च त्रयस्त्रिंशदधिकं योजनशतं जम्बूद्वीपमवगाह्य चारं चरति, तदा च परमप्रकर्षप्राप्तोऽष्टादशमुहूर्त्तो दिवसो भवति, सर्वजघन्या च द्वादशमुहर्त्ता रात्रिः, यदा तु सर्वबाह्यं मण्डलमुपसङ्क्रम्य चारं चरितुमारभते तदा लवणसमुद्रमेकं योजनसहस्रमेकं च त्रयस्त्रिशदधिकं योजनशतमवगाह्य सूर्यश्चारं चरति, तदा चोत्तमकाष्ठाप्राप्ता अष्टादशमुहूर्त्तप्रमाणा रात्रिर्भवति, सर्वजघन्यो द्वादशमुहूर्त्त प्रमाणो दिवसः, अत्रैवोपसंहारमाह - 'एगे एवमाहंस' १, एके पुनर्द्वितीया एवमाहुः, 'ता' इति पूर्ववत्, एकं योजन सहस्रमेकं च चतुस्त्रिंशदधिकं योजनशतं द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, भावना प्राग्वत्, अत्रैवोपसंहारमाह - 'एगे एवमाहंसु', एके पुनस्तृतीया एवमाहुः - एकं योजनसहस्रमेकं च पंचत्रिंशदधिकं योजनशतमवगाह्य सूर्यश्चारं चरति अत्रापि भावना प्रागिव, अत्रैवोपसंहारमाह-'एगे एवमाहंसु' एके पुनश्चतुर्थास्तीर्थान्तरीया एवमाहुः, 'अवहुं' ति अपगतं सदप्यवगाहाभावतो न विवक्षितमर्द्ध यस्य तमपार्द्धमर्द्धहीनमर्द्धमात्रमित्यर्थः, द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, इयमत्र भावना - यदा सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य सूर्यश्चारं चरति तदा अर्द्ध जम्बूद्वीपमवगाहते, तदा च दिवसः परमप्रकर्षप्राप्तोऽष्टादश मुहूर्त्तप्रमाणो भवति, सर्वजघन्या च द्वादशमुहूर्त्तप्रमाणा रात्रिः, यदा पुनः सर्वबाह्यं मण्डलमुपसङ्गम्य सूर्यश्चारं चरति तदा अर्द्ध अपरिपूर्ण लवण समुद्रमवगाहते, तदा च सर्वोत्कर्षकाष्ठा प्राप्ता अष्टादशमुहूर्त्तप्रमाणा रात्रिः सर्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org