SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल.) १प्राभृते५प्राभृतप्राभृतं ॥३१॥ उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, सर्वजघन्या द्वादशमुहूर्त्ता रात्रिः, "एवं सत्वबाहिरेवित्ति एवं सर्वाभ्यन्तरमण्डल इव सर्वबाह्येऽपि मण्डले आलापको वक्तव्यः, स चैवम्-'जया णं सबबाहिरं मंडलं उवसंकमित्ता चारं चरई', इति, नवरमिति सर्वबाह्यमण्डलगतादालापकादस्यालापकस्य विशेषोपदर्शनार्थः, तमेव विशेषमाह-तया णं लवणसमुदं तिन्नितीसे जोयणसए ओगाहित्ता चारं चरइ, तया णं उत्तमकढपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवई' इति, इदं च सुगम, क्वचित्तु 'सवबाहिरेवी' त्यतिदेशमन्तरेण सकलमपि सूत्रं साक्षाल्लिखितं दृश्यते, गाहाओ भाणियवाओं' अत्रापि काश्चन प्रसिद्धा विवक्षितार्थसङ्घाहिका गाथाः सन्ति ता भाणितव्याः, ताश्च सम्प्रति व्यवच्छिन्ना इति न कथयितुं व्याख्यातुं वा शक्यन्ते, यथासम्प्रदायं वाच्या इति ॥ .. इति मलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां प्रथमस्य प्राभृतस्य पञ्चमं प्राभृतप्राभृतं समाप्तम् ॥ । तदेवमुक्तं पञ्चमं प्राभृतप्राभृतं, सम्प्रति षष्ठं वक्तव्यं, तस्य चायमर्थाधिकारः-कियन्मानं क्षेत्रमेकेन रात्रिन्दिवेन सूर्यो हैविकम्पते इति, ततस्तद्विषयं प्रश्नसूत्रमाह ता केवतियं (ने) एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति आहितेत्ति वदेजा, तत्थ खलु । ४ इमाओ सत्त पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-ता दो जोयणाइं अद्धदुचत्तालीसं तेसीतसयभागे जोयणस्स एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति, एगे एवमाहंसु १, एगे पुण एवमाहंसु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy