________________
HARSHAN
स्यान्तरं कृत्वा जम्बुद्वीपे द्वौ सूर्यों चारं चरतश्चरन्तावाख्यातावितिस्वशिष्येभ्यो वदेत्, अत्रैवोपसंहारमाह-एके एव-| माहुरिति, एवं सर्वत्राप्यक्षरयोजना कर्त्तव्या, एके पुनर्द्वितीयास्तीर्थान्तरीया एवमाहुः-एक योजनसहस्रमेकं च चतुस्त्रिंशचतुस्त्रिंशदधिकं योजनशतं परस्परमन्तरं कृत्वा चारं चरतः, एके तृतीयाः पुनरेवमाहुः-एक योजनसहस्रं एकं च पञ्चत्रिंशदधिक योजनशतं परस्परमन्तरं कृत्वा चारं चरतः, एके पुनश्चतुर्था एवमाहुः-एक द्वीपं एकं च समुद्रं परस्परम
न्तरं कृत्वा चारं चरतः, एके पुनः पञ्चमा एवमाहुः-द्वौ द्वीपौ द्वौ समुद्रौ परस्परमन्तरं कृत्वा चारं चरतः, एके षष्ठाः। Plपुनरेवमाहुः-त्रीन् द्वीपान त्रीन् समुद्रान् परस्परमन्तरं कृत्वा चारं चरत इति । एते च सर्वे तीर्थान्तरीया मिथ्यावादि-18
नोऽयथातत्त्ववस्तुव्यवस्थापनात् , तथा चाह-'वयं पुण'इत्यादि, वयं पुनरासादितकेवलज्ञानलाभाः परतीर्थिकव्यवस्थापितवस्तुव्यवस्थाव्युदासेन ‘एवं' वक्ष्यमाणप्रकारेण केवलज्ञानेन यथावस्थितं वस्तुतत्त्वमुपलभ्य वदामः, कथं वदथ | यूयं भगवन्त इत्याह–ता पंचे'त्यादि, 'ता' इति आस्तामन्यद्वक्तव्यं इदं तावत्कथ्यते, द्वावपि सूयौँ सर्वाभ्यतरान्म| ण्डलान्निष्क्रामन्तौ प्रतिमण्डलं पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य पूर्वपूर्वमण्डलगतान्तरपरिमाणे
अभिवर्द्धयन्तौ वाशब्द उत्तरविकल्पापेक्षया समुच्चये 'निवुढेमाणा वा' इति सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन्तो प्रतिमण्डलं पञ्च पञ्च योजनानि पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य निर्वेष्टयन्तौ पूर्वपूर्वमण्डलगतान्तरपरिमाणात हापयन्ती, वाशब्दः पूर्वविकल्पापेक्षया समुच्चये, सूर्यों चार चरतः, चरन्तावाख्याताविति स्वशिष्येभ्यो वदेत्, एवमुक्ते भगवान् गौतमो निजशिष्यनिःशङ्कितत्वव्यवस्थापनार्थ भूयः प्रश्नयति-तत्थ 'मित्यादि, तत्र एवंविधाया वस्तुतत्त्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org