________________
S
सूर्यप्रज्ञतिवृत्तिः (मल०)
१प्राभृते ४प्राभृतप्राभृतं
॥२६॥
ERS
व्यवस्थाया अवगमे को हेतु:-का उपपत्तिरिति प्रसादं कृत्वा वदेत् ?, भगवानाह-ताअयन'मित्यादि, इदं जम्बूद्वीपस्वरूपप्रतिपादकं वाक्यं पूर्ववत्परिपूर्ण स्वयं परिभावनीयम्, 'ता जया 'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे एतौ जम्बूद्वीपप्रसिद्धौ भारतैरावतौ द्वावपि सूर्यो सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरतः तदा नवनवतियोजनसहस्राणि षट् योजनशतानि चत्वारिंशानि-चत्वारिंशदधिकानि परस्परमन्तरं कृत्वा चारं चरतः चरन्तावाख्याताविति वदेत् , कथं सर्वाभ्यन्तरे मण्डले द्वयोः सूर्ययोः परस्परमेतावत्प्रमाणमन्तरमिति चेत् ?, उच्यते, इह जम्बूद्वीपो योजनलक्षप्रमाणविष्कम्भस्तत्रैकोऽपि सूर्यो जम्बूद्वीपस्य मध्ये अशीत्यधिक योजनशतमवगाह्य सर्वाभ्यन्तरे मण्डले चारं चरति, द्वितीयोऽप्यशीत्यधिक योजनशतमवगाह्य, अशीत्यधिकं च शतं द्वाभ्यां गुणितं त्रीणि शतानि षष्यधिकानि ३६० भवन्ति, एतानि जन्तीपे विष्कम्भपरिमाणाल्लक्षरूपादपनीयन्ते, ततो यथोक्तमन्तरपरिमाणं भवति, 'तया ण'मित्यादि, तदा सर्वाभ्यन्तरे द्वयोरपि सूर्ययोश्चरणकाले उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्तः उत्कर्षकः-उत्कृष्टो अष्टादशमुहूत्तों दिवसो भवति, जघन्या-सर्वजघन्या द्वादशमुहूर्ता रात्रिः 'ते निक्खममाणा'इत्यादि ततस्तस्मात्सर्वाभ्यन्तरान्मण्डलातौ द्वावपि सूर्यो निष्क्रामन्तौ नवं सूर्यसंवत्सरमाददानौ नवस्य सूर्यसंवत्सरस्य प्रथमेऽहोरात्रेऽभ्यन्तरानम्तरमिति
C सवोभ्यन्तरात् मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्कम्य चारं चरतः "ता जया णमित्यादि ततो यदा |एतौ द्वावपि सूर्यों सर्वाभ्यन्तरानन्तरमण्डलमुपसङ्कम्य चारं चरतस्तदा नवनवतियोजनसहस्राणि षट् शतानि पञ्चचत्वारिंशदधिकानि योजनानां पञ्चत्रिंशतं चैकपष्टिभागान् योजनस्येत्येतावत्प्रमाणं परस्परमन्तरं कृत्वा चार
॥२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org