SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ यदा च राहुश्चन्द्रस्य सूर्यस्य वा मध्यभागेन लेश्यामावृण्वन् व्यतिव्रजति-गच्छति तदैवं मनुष्यलोके प्रवादो, यथा-चन्द्रः। हैसूर्यो वा राहुणा व्यतिचरित इति, किमुक्तं भवति ?-मध्यभागेन विभिन्न इति, यदा च राहुश्चन्द्रस्य सूर्यस्य वा 'सप क्खि'मिति सह पक्षैरिति सपक्षं सर्वेषु पार्येषु पूर्वापरदक्षिणोत्तररूपेध्वित्यर्थः, सह प्रतिदिग्भिः सप्रतिदिक्, सर्वास्वपि विदिक्षु इत्यर्थः, लेश्यामावृत्याधस्तिष्ठति तदैवं मनुष्यलोकोक्तिर्यथा राहुणा चन्द्रः सूर्यो वा सर्वात्मना गृहीत इति । आहचन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात् कथं राहुविमानस्य सर्वात्मना चन्द्रविमानावरणसम्भवः ?, उच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिकमवसेयं, ततो राहोहस्योक्ताधिकप्रमाणमपि विमानं सम्भाव्यते इति न कदा(का)चिदनुपपत्तिः, अन्ये पुनरेवमाहुः-राहुवि|मानस्य महान् वहलस्ति मिश्ररश्मिसमूहस्ततो लघीयसाऽपि राहुविमानेन महता वहलेन तमिश्ररश्मिजालेन प्रसरमधिरोहता सकलमपि चन्द्रमण्डलमात्रियते ततो न कश्चिद्दोषः । अथ राहोर्भेदं जिज्ञासिषुः प्रश्नयति-ता कइविहे ण-14 मित्यादि, सुगम, भगवानाह-'दुविहे' इत्यादि, द्विविधो राहुः प्रज्ञप्तः, तद्यथा-ध्रुवराहुः पर्वराहुश्च, तत्र यः सदैव चन्द्रविमानस्याधस्तात् सञ्चरति स ध्रुवराहुः, यस्तु पर्वणि-पौर्णमास्यां अमावास्यायां वा यथाक्रमं चन्द्रस्य सूर्यस्य वा उपरागं करोति स पर्वराहुः, तत्र योऽसौ ध्रुवराहुः स बहुलपक्षस्य कृष्णपक्षस्य-सम्बन्धिन्याः प्रतिपद आरभ्य प्रतितिथि आत्मीथेन पञ्चदशेन भागेन पञ्चदशभाग २ चन्द्रस्य लेश्यामावृण्वन् तिष्ठति, तद्यथा-प्रथमायां-प्रतिपल्लक्षणायां तिथौ प्रथमं पञ्चदशभागं द्वितीयस्यां द्वितीयं तृतीयस्यां तृतीयं यावत्पञ्चदश्यां पञ्चदर्श, ततः पञ्चदश्यां तिथौ चरम **-**-5550%A5 % Jain Education Internation For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy