SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ %95- 'तद्यथे'त्यादिना तानेव दर्शयति,-एते यथासम्प्रदाय वैविक्त्येन प्रतिपत्तव्याः, 'ता जया णमित्यादि, ततो यदा णमिति वाक्यालङ्कारे एते अनन्तरोदिताः पञ्चदशभेदाः कृष्णाः पुद्गलाः कृत्स्नाः-समस्ताः 'सता'इति सदा सातत्येनेत्यर्थः चन्द्रस्य वा सूर्यस्य वा लेश्यानुबन्धचारिणः-चन्द्रसूर्यबिम्बगतप्रभानुचारिणो भवन्ति तदा मनुष्यलोके मनुष्या एवं वदन्ति, यथा एवं खलु राहुश्चन्द्र सूर्य वा गृह्णातीति, 'ता जया 'मित्यादि, ता इति पूर्ववत्, यदा णमिति पुनरर्थे निपातस्यानेकार्थत्वात् यदा पुनरेते पञ्चदश कृष्णाः पुद्गलाः समस्ताः नो सदा-न सातत्येन चन्द्रस्य सूर्यस्य वा लेश्यानुबन्धचारिणो भवन्ति, न खलु तदा मनुष्यलोके मनुष्या एवं वदन्ति-यथा एवं खलु राहुश्चन्द्रं सूर्य वा गृह्णातीति, तेषामेवोपसंहारवाक्यमाह-'एवं खलु'इत्यादि, एवमुक्तेन प्रकारेण राहुश्चन्द्र सूर्य वा गृह्णातीति लौकिक ४ वाक्यं प्रतिपत्तव्यं, न पुनः प्रागुक्तपरतीर्थिकाभिप्रायेण, भगवानाह–'एते'इत्यादि, एते परतीर्थिका एवमाहुः, 'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवला: केवलविदोपलभ्य एवं वदामो, यथा-राहूण'मित्यादि, ता इति पूर्ववत् , राहुःणमिति वाक्यालङ्कारे, न देवो न परपरिकल्पितपुद्गलमात्रं स च देवो महर्द्धिको महाद्युतिः महाबलो महायशा महासौख्यो महानुभावः, एतेषां पदानामर्थः प्राग्वद् भावनीयः, वरवस्त्रधरो वरमाल्यधरो वराभरणधारी, राहुस्स ण'मित्यादि, तस्य |च राहोर्देवस्य नव नामधेयानि प्रज्ञप्तानि, तद्यथा-'सिंघाडए'इत्यादि सुगम, 'ता राहुस्स णमित्यादि, ता इति पूर्ववत्, राहोर्देवस्य विमानानि पञ्चवर्णानि प्रज्ञप्तानि, किमुक्तं भवति ?-पञ्च विमानानि पृथगेकैकवर्णयुक्तानि प्रज्ञप्तानि, तद्यथा-'किण्हे नीले'इत्यादि, सुगम, नवरं खञ्जन-दीपमल्लिकामलः 'लाउयवण्णाभे'इति आर्द्रतुम्बवर्णाभं, 'ता %C 4 %a in Education International For Personal & Private Use Only www.janelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy